________________
PATTAN CATALOGUE OF MANÇBCRIPTS दशकालिकानुयोगात् सूत्रव्याख्या पृथक् कृता। .. हरिभद्राचार्यकृतान्मोहाद् भक्त्याथवा मया ॥ श्रीमद्वाचकशिष्येण श्रीमत्सुमतिसूरिणा । विद्वद्भिस्तत्र नो द्वेषो मयि कार्यों मनागपि ॥ यस्माद् व्याख्याक्रमः प्रोक्तः सूरिणा भद्रवाहुना । आवश्यकस्य नियुक्तौ व्याख्याक्रमविपश्चिता ।। सूत्रार्थः प्रथमो ज्ञेयो नियुक्त्या मिश्रितस्ततः । सर्वे(वों) व्याख्याक्रमैयुक्तो भणितव्यस्तृतीयकः ॥ प्रमाद-कार्यविक्षेपचेतसां तदयं मया । कृपाया अवबोधार्थ साधूनां तु पृथक् कृतः ॥ लब्ध्वा म(मा)नुष्यकं जन्म ज्ञात्वा सर्वविदो मतं । प्रमाद-मोहसम्मूढा वैफल्यं ये नयंति हि ॥ जन्म-मृत्यु-ज्व(ज)राद्या(ढ्या) रोग-शोकायुपद्रुते । संसारसागरे रौद्रे ते भ्रमंति विडंबिताः ॥ ये पुनर्ज्ञान-सम्यक्त्व-चारित्रविहितादराः ।
भवांबुधिं समुल्लंघ्य ते यांति पदमव्ययं ॥ End: संवत् ११८८ मागसिरवदि ६ शुक्रे दशवैकालिक[टीका] (२) उत्तराध्ययन.
प. १०६ Post-Colophon:
सं. १९७९ वर्षे भाद्रपद श्रीमदणहिलपाटकाभिधानराजधान्यां स्थितसमस्तनिजराजावलीसमलंकृतमहाराजाधिराज-परमेश्वर-त्रिभुवनगंड-श्रीसिद्धचक्रवर्तिश्रीमजयसिंहदेवकल्याणविजयराज्ये प्रवर्धमाने एतस्मात् परमस्वामिनः पूज्यपादद्वयप्रसादात् श्रीश्रीक[]णे महामात्यश्रीआशुकः समस्तव्यापारान् करोतीत्येतस्मिन् काले इह कर्णावत्यां श्रीकर्णेश्वरदेवभुज्यमानसुपांतीजग्रामनिवासी परमश्रावकप्रद्युम्न तथैतदीयभार्या वेल्लिका च अपरं च नेमिप्रभृतिसमस्तगोष्ठिकैः परत्र हेतवे निर्जरार्थ च आर्जिका मरुदेविगणिनी तथैतदीयचेल्लिका बालमतिगणिन्योः पठनाय उत्तराध्ययनश्रुतस्कंधो यक्षदेवपार्शल्लिखाप्य प्रदत्त इति । यादृशं etc. मंगलं महाश्रीः । शिवमस्तु जिनशासनाय । ___ (३) प्रतिष्ठाविधान.
प, १५