SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVI PADA तच्छिष्यः समजायताद्भुतमतिः चा(श्रा)रित्रिणामप्रणीः शास्त्रस्यास्य विधायकः कुशलधीनिःशेषशास्त्राध्वनि । लुप्तस्येह चिराचिरंतनविधेरुद्धारकर्ता कलौ श्रीचंद्रप्रभसूरिरित्यभिधया ख्यातः क्षितौ सद्गुरुः ॥५॥ एतत्पट्टधुरंधरः स(श)मनिधि[:] श्रेष्ठस्तपश्चारिणां श्रीचौलुक्यमहीभुजा भुजबलप्रोत्सारितारातिना[?] । अर्हच्छासनवार्धिवर्धनविधौ ताराधिनाथोभवत् भव्यांभोजवनप्रकाशनरविः श्रीधर्मघोषः प्रभुः ॥ ६ ॥ आचारेण कुलीनता सुभगता रूपेण शांत्या तपः स्वामित्वेन गुणज्ञता विदुरता शीलेन दाक्ष्यं श्रिया । इत्थं यस्य पुरं कुटुंबिन इवाध्यूपुर्गुणाः सुस्थिताः शिष्यस्तस्य समंतभद्रगणधीः सोभूज्जगद्दीपकः ॥ ७ ॥ शिष्यश्चान्योपि चंद्रप्रभपरमगुरोरद्वितीयो द्वितीयो बंधुः श्रीधर्मघोपाभिधमुनि....त(वृषभ)स्यानुजातोभिजातः । प्रज्ञाप्राग्भारपश्चात्कृतविबुधगुरुर्वाचनासूरिरुच्चै रप्रमन्यो मुनीनां विमलगणिरिति श्लाघ्यनामा बभूव ॥ ८॥ सरसा विचारबहुला सञ्चक्रानंदहेतुरस्ताघा । गंगेव यतस्तुंगा दर्शनशुद्धेरजनि वृत्तिः ॥ ९ ॥ सूरिः श्रीदेवभद्राख्यस्तस्य शिष्योस्ति मंदधीः । प्रतिष्ठितः स्वहस्तेन श्रीधर्मघोषसूरिभिः ॥ १० ॥ गुरोस्तेन बृहद्वृत्तेः उ(रु)द्धृत्य कतिचिल्लवा । नि(वि)वृत्ता(ता) वृत्तिरूपेण भव्यानां हितकाम्यया ॥ ११ ॥ सूरेः श्रीशांतिभद्राख्यस्वशिष्यस्य महामतेः । साहाय्यादयमारंभो निष्ठाकोटिमटीकत ॥ १२ ॥ मुनिप्रभाभिधानेन विदुषैपा स्फुटाक्षरा । अलेखि प्रथमादर्शे कर्म........विश्वकर्मणा ॥ १३ ॥ अनुष्टुपां(भा) सहस्राणि त्रीणि सहाष्टभिः शतैः । वृत्तावस्यां तु सर्वा(प्रथा) गणितजैरुदाहृतं ॥ १४ ॥ Post-Colophon: सं० १२२४ वर्षे.......शुदि २ गुरौ ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy