SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS Beginning: नमः सर्वज्ञाय । नत्वा(मः) श्रीवर्धमानाय निःसीमज्ञानचक्षुषे । जितांतरारिवर्गाय [सम्यक्तत्त्वार्थदेशिने ॥ १॥] [दर्शनशुद्धेर्वृत्ति] वक्ष्ये संक्षेपतः समयनीत्या । मंदमतिबोधविध्यै स्मरणार्थमथात्मनः ॥ २ ॥ जिनवदननलिन[सदना विबुधासुरमनुज]वृंदवंद्यपादा । सर्वांगसुंदरतनुर्वाग्देवी वसतु मे हृदये ॥ श्रीमञ्चंद्रप्रभगणभृतः सारगंभीरवाचा गुंफः कायं निबिडजडिमोस्निग्धबंधुः(धः) क चाहं । किं त्वेतस्मिन् निजगुरुपरिक्षुण्णमार्गे पुरस्ता दस्तक्लेशं प्रसरतु ममाप्येष वाचां प्रचारः ॥ Colophon: इति श्रीदेवभद्राचार्यविरचिते दर्शनशुद्धिप्रकरणविवरणे पंचमं जीवादितत्त्वं समाप्तं ।। Pras'asti:-- इह प्रायः शास्त्रांतरविवरणादात्ममतिगुणा बुधासत्तेः किंचित् किमपि पुनराम्नायवशतः । इयं दृष्ट्वा(ब्धा) वृत्तिस्तदिह यदसत् किंचिदुदितं विशोध्यं तत् प्राज्ञैरविशदमतिर्मुह्यति न कः ॥ आस्ते तुंगोधनाभोगः सुप्रतिष्ठो भुवस्तले । आस्थानं द्विजसार्थानां श्रीकोटिकगणद्रुमः ॥ १॥ तत्रायता घनच्छाया सुमनःस्तोमसन्नता। वैरशाखास्ति विख्याता फलावंध्या महोन्नतिः ॥ २॥ गोभिः सुधावयस्याभिः त(स्त)र्पिताशेषभूतलं । तस्यां कुवलयोल्लासि चांद्रं विजयते कुलं ॥ ३ ॥ अर्हच्छासनकाननैकवसतिर्व्याख्यानगुंजारवैः श्रोतृवांतनिकुंजकल्मषमृगानुप्रासयन् सर्वतः । प्रोन्मादिप्रतिवाविधारणघटावित्रासदक्षोभवत् ..तत्र श्रीजयसिंह इत्पवितथख्यातिं दधानः प्रभुः ॥ ४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy