SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVĪ Pānā अर्जुनः पंचमो जातः षष्ठोऽभयसिंहाभिधः । पुत्री हांसीति विख्याता सतीत्वगुणशालिनी ॥ ७ ॥ शोभनदेवस्य प्रेयस्यासीत् सुशीलसंयुता । नामतः सुहडादेवी भूरिगुणविभूषणा ॥ ८ ॥ तस्यां च गुणशालिन्यां जाताः सप्त सहोदराः । निर्मलेन चरित्रेण राजते ऋपिवत् सदा ॥ ९॥ तेषु मुख्यपदवीसमाश्रितो विश्रुतोऽस्ति विनयादिसद्गुणैः । धर्मकर्मणि तथाभिधानतो यः सलक्ष इह सज्जनाप्रणीः ॥ १० ॥ तस्यास्ति दयिता साध्वी देवी भावलनामतः । तस्याः कुक्षिमलंचक्रे पुत्ररत्नचतुष्टयी ॥ ११ ॥ सोमः सौम्यगुणोपेतस्ततो जज्ञे नरोत्तमः । दानादिक चतुर्भेदधर्माराधनतत्परः ॥ १२ ॥ श्रीदेवी तस्य दयिता भाति सर्वगुणोत्तमा । देवताराधने रक्ता शीला लंकारधारिणी ॥ १३ ॥ दानशौंडो रतो धर्मविवेकीति विशारदः । सोढलाख्यस्तृतीयस्तु देवी संसारवल्लभा ॥ १४ ॥ तस्याः कुक्षिसरस्यां च राजहंस इवामलः । अवतीर्णो वसिंहः कर्माद्रौ वज्रसन्निभः ॥ १५ ॥ तस्यानुजो विजयते जगति प्रतीतः सौभाग्य भाग्य सुविवेकविराजमानः । यस्याख्यया नरपतिर्नृपमाननीयः सत्त्वोपकारकरणैकरसात्मकस्य ॥ १६ ॥ नरपते: प्रिया चास्ति नलदेवीति शुद्धधीः । प्रसूता सा सुतं भव्यं नरसिंहाभिधोऽस्ति यः ॥ १७ ॥ नरपतेरनुजोऽस्ति धरणः साधुधीरधीः । अभिधानादेवी प्रिया प्रियगुणान्विता ॥ १८ ॥ श्रद्धाजलेन विमलेन सुशीतलेन संपूरिते सुकृतनीरजराजमाने । सन्मानसे लसति यस्य विवेकहंसः सोयं जयी महणसिंह इति प्रतीतः ॥ १९ ॥ मीणाख्या प्रिया तस्य प्रभूतगुणशालिनी । मान्या स्वजनवर्गेषु सदौचित्यपरायणा ॥ २० ॥ अन्यश्च - 'नित्यां प्रपां ज्ञानसुधारसाढ्यां तत्त्वोपदेशासम सत्रगेहं । 167 मोहांधकारेषु समीपदीपं सत्पुस्तकं लेखयतीह धन्यः ॥ २१ ॥'
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy