SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ 124 Pattan CATALOGUE OF MANUSCRIPTS सिद्धप्राभृत-जीवाजीवाभिगमवृत्तकेऽलेखयत् । अणहिल्लपाटकनगरे त्रि-वार्द्धि-वाद्धौंदुमितवर्षे ॥ ९॥ शिवमस्तु etc. १९६. शान्तिनाथचरित्र (सं.) by मुनिदेवसूरि. Paper Ms. Beginning: __ओं नमः शांतिनाथाय । वेश्मरत्न-निशारत्न-नभोरत्नपरं परं । परं तज्जयति ज्योतिर्महामोहतमोपहं ॥१॥ एकामपि त्रिरूपां यो जगत्रितयगोचरे । चारयामास जैनी गां गौतमः स तमःछिदे ॥८॥ श्री[सु]धर्मा सुधर्मा श्रीवीरवंशसमुद्भवः । तरोर्महांतरारातिपातने तनुतां मम ॥ ९ ॥ चतुर्दशमितापूर्वपूर्वरत्नकुलाश्रयः । विश्वरूपं दधन्मध्ये श्रुतवाधिः प्रवर्धताम् ॥ १० ॥ चतुर्दशशतग्रंथग्रथनायासलालसं । हारिभद्रं वचो हारि भद्रं भद्रं करोतु नः ॥ ११ ॥ वादविद्यावतोद्यापि लेखशालामनुज्झता । देवसूरिप्रभोः साम्यं कथं स्याद् देवसूरिणा ? ॥ १२ ॥ वंदे श्रीदेवचंद्रं तं यत्कृतं प्राकृतं बृहत् । श्रीशांतिवृत्तं संक्षिप्य संस्कृतं क्रियते मया ॥ १३ ॥ अमानं महिमानं कस्तस्य स्तौतु गणेशितुः । शिष्यो यस्योदितो हेमचंद्रसूरिर्जगद्गुरुः ॥ १४ ॥ नृपतिप्रतिबोधिन्या यद्राि सुधयामराः । जज्ञिरे पशवोपि श्रीहेमसूरिं महेम तत् ॥ १५ ॥ श्रीदेवानंदसूरिभ्यो नमस्तेभ्यः प्रकाशितं । सिद्धसारखताख्यं यैर्निजं शब्दानुशासनम् ॥ १६ ॥ श्रीदेवानंदशिष्यश्रीकनकप्रभसूरिराट् । श्रीप्रद्युम्नश्चिरं नंद्याद् नवग्रंथविशुद्धिकृत् ॥ १७ ॥ End:श्रीजैनशासनसरोजविकाशभानुः श्रीदेवसूरिरिति तस्य बभूव शिष्यः । दुर्वादिकौशिकव(च)यप्रतिभाहगांध्यं यो वाग्मरीचिनिचयै रचयांचकार ॥४॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy