SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAvi PADA Beginning: ओं नमो वीतरागाय । उदयस्थितमरुणकरं दिनकरमिव विमलकेवलालोकं । विनिहतजडतादोषं सद्वृत्तं वीरमानम्य ॥ १ ॥ वक्ष्यामि प्रशमरतेविवरणमिह वृद्धवृत्तितः किंचित् । जडमतिरप्यकठोरं स्वस्मृत्यर्थं यथाबोधं ॥ २ ॥ यद्यपि मदीयवृत्तेः साफल्यं नास्ति तादृशं किमपि । सुगमत्व-लघुत्वाभ्यां तथापि तत् संभवत्येव ।। इहाचार्यः श्रीमानुमास्वातिपुत्रस्त्रासितकुतर्कजनितवितर्कप्रपंचः पंचशतप्रकरणप्रबंधप्रणेता वाचकमुख्यः समस्तश्वेतांबरकुलतिलकः etc. End: यत्यालये मंदगुरूपशोभे सन्मंगले सबुधराजहंसे । तारापथे वा सु(चाशु)कविप्रचारे श्रीमानदेवाभिधमूरिगच्छे ॥ १॥ भव्या बभूवुः शुभशस्यशिष्या अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्गुरुभक्तियुक्तैः प्रज्ञाविहीनैरपि शास्त्ररागात् ॥ २॥ श्रीहरिभद्राचार्य रचितं प्रशमरतिविवरणं किंचित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥ ३ ॥ अणहिलपाटकनगरे श्रीमजयसिंहदेवनृपराज्ये । बाण-वसु-रुद्रसंख्ये विक्रमतो वत्सरे व्रजति ॥ ४ ॥ श्रीधवलभांडशालिकपुत्रयशोनागनायकवितीर्णे । सदुपाश्रयस्थितैस्तैः समर्थितं शोधितं चेति ॥ ५ ॥ यदिहाशुद्धं किंचित् छद्मस्थत्वेन लिखितमस्माभिः । तच्छोध्यं धीमद्भिः सम्यक् संचिंत्य समयज्ञैः ॥ ६ ॥ शास्त्रस्य पीठबंधः १ कपाय २ रागादि ३ कर्म ४ करणा ५ ः ६। अष्टौ च मदस्थानाः ७ आचारो ८ भावना ९ धर्मः १० ॥७॥ तदनु कथा ११ जीवाद्या १२ उपयोगा १३ भाव १४ वदिव द्रव्यं १५। चरणं १६ शीलांगानि १७ च ध्यान १८ श्रेणी १९ समुद्घाताः २० ॥८॥ योगनिरोधः क्रमशः २१ शिवगमनविधानमंत्यफलमस्य । २२ द्वाविंशत्यधिकारा मुख्या इह धर्मकथिकायां ॥ ९ ॥ व्याख्यामेतस्य शास्त्रस्य कृत्वा पुण्यं यदर्जितं । तेन भव्यो जनः सर्वो लभतां शर्ममुत्तमं ॥ १०॥ 13
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy