________________
50
PATTAN CATALOGUE OF MANUSCRIPTS
भद्रबाहुर्हरिभद्रः शीलांकः शाकटायनः ॥
उमास्वातिः प्र........... Fol. 130 missing.
६०. उपमितिभवप्रपंचाकथासारोद्धार (श्लोकबद्ध) by देवेंद्र. in good state of preservation. प. २९३; १५३४२४" Donor's prasasti:- शुभं भवतु लेखक-पाठकयोः ।
श्रीमंतस्ते सतां संतु तीर्थेशाः स्वस्तिकारिणः । अपारभवकांतारतारित.........तवः ॥ १ ॥ पल्लीवाल इति ख्यातो वंशः पर्वोदितोदितः। सोस्ति स्वस्तिकरो धाग्यां यत्र कीर्तिय॑जायते ॥ २ ॥ पु............वित्रोभूद् वंशे मुक्तोप(क्ताफ)लोज्वलः । वीकलाख्य इति श्रेष्ठी सतां हृदि गुणैः स्थितः ॥ ३ ॥ तत्पनी रत्नदेवीति पवित्रा पुण्यशालिनी । गुणमाणिक्यमंजूषा तुषारातिशीतला ॥ ४ ॥ पुत्री तयोः सूल्हणिनामधेया सुश्राविका शीलवती बभूव । या देवपूजानिरता गुरूणां पादांबुजासेवनराजहंसी ॥ ५ ॥ पुरा पवित्रस्तत्रासीद् वंशे मुक्ताफलोज्वलः । योगदेव इति श्रेष्ठी सतां हृदि गुणैः स्थितः ॥ ६ ॥ आमदेवश्च वीरश्च तनयौ सनयौ ततः । कर्पद्या(पा)माक-साढाका वीरपुत्रास्त्रयोभवन् ॥ ७ ॥ सा[ढाक]स्य ततो जज्ञे पुत्रश्वांत्रकुमारकः । परोपकार-दाक्षिण्य-गांभीर्यविधिसेवधिः ॥ ८ ॥ जयंतीत्याख्यया जज्ञे गेहिनी तस्य सत्यवाक् । तत्सुतः पासडो जज्ञे धांइ रूपी सुते तथा ॥ ९॥ ततः सत्पुण्यपात्रस्य पवित्रस्य महात्मनः । सुधियः पासडस्याभूत् पत्नी पत्तेरिति... ॥ १०॥ तस्याः पुत्रास्त्रयो जाताः पुमर्था इव जंगमाः । जगत्सिंहो वासिंहः तथा मदनसिंहकः ॥ ११ ॥ माणिर्जगत्सिंह ......द्वर्गधारिणी । सुहणिर्वजसिंहस्य बभूव प्रेयसी ततः ॥ १२ ॥