________________
श्रीवीतरागाय नमः श्रीमद्-गुरुदासाचार्यविरचितप्रायश्चित्त-समुच्चयः
१-संज्ञाधिकारः संयमामलसनगनीरोदरसागरान् । श्रीगुरुनादराद्वन्दे रनत्रयविशुद्धये ॥१॥ भावा यत्रामिधीयन्ते हेयादेयविकल्पत । अप्यतीचारसंशुद्धिस्तं श्रुताब्धिममिष्टुवे ॥२॥ पारंपर्यक्रमायातं रत्नत्रयविशोधनम् । संक्षेपात् संप्रवक्ष्यामि प्रायश्चित्तसमुच्चयम् ॥३॥ प्रायश्चित्तं तपः प्राज्यं येन पापं पुरातनम् । शिमं संक्षीयते तस्मात्तन्नयनो विधीयताम् nel प्रायश्चित्तेऽसति स्यान चारित्रं तद्विना पुनः । न तीर्थ न विना तीर्थाभिवृत्तित्तद् वृथा व्रतम् ॥ रहत्यं छेदनं दंडो मलापनयनं नयः । प्रायश्चित्ताभिधानानि म्यवहारो विशोधनम् ॥६॥ प्रायश्चित्तविधि सूरिरजानानः कलंक्रयेत् ।
आत्मानमय शिष्यं च दोषजातात शोधयेत् ॥७॥ स्वस्थान मासिक मूलगुणो मूलममी इति । पंचकल्याणपर्याया गुरुमासोऽय पंचम ॥८॥