________________
१४]
अनुत्तरोपपातिकदशासूत्रम् । [प्रथमो वर्ग: राजा, धारिणी देवी, सिंहः स्वप्ने, जालिकुमारो यथा मेघः।अष्टाष्ट दातानि । यावदुपरि प्रासादे विहरति ।स्वामी समवस्तृतःश्रेणिको निर्गतः । यथा मेघो तथा जालिरपि निर्गतः। तथैव निष्क्रान्तो यथा मेघः । एकादशाङ्गान्यधीते । गुणरत्नं तपः-कर्म, एवं या चैव स्कन्दक-वक्तव्यता सैव चिन्तनाऽऽपृच्छणा। स्थविरैः साई विपुलं तथैव दू (आ) रोहति । नवरं षोडश वर्षाणि श्रामण्य-पर्यायं पालयित्वा काल-मासे कालंकृत्वोचं चन्द्र० सौधर्मेशानयोः आरण्यच्युतयोः कल्पे च ग्रैवेयक-विमान-प्रस्तटावं व्यतिवर्त्य विजय-विमाने देवतयोत्पन्नः । ततो नु स्थविरा भगवन्तो जालिमनगारं काल-गतं ज्ञात्वा परिनिर्वाणवर्तिनं कायोत्सर्ग कुर्वन्ति, कृत्वा च पात्र-चीवराणि गृह्णन्ति, तथैवावतरन्ति “यावदिमान्यस्याचार-भाण्डकानि"।"भगवन्!" इति भगवान् गोतमो यावदेवमवादीत् “एवं खल्लु देवानुप्रियाणामन्तेवासी जालिनामाऽनगारः प्रकृति-भद्रकः । स नु जालिरनगारः काल-गतः कुत्र गतः? कुत्रोत्पन्नः ?” “एवं खल्ल गोतम! ममान्तेवासी तथैव यथा स्कन्दकस्य यावत् काल० अर्ध्वं चन्द्रमसो यावदविजय-विमाने देवतयोत्पन्नः” “जालेर्नु भगवन् ! देवस्य कियान् काल: स्थितिः प्रज्ञप्ता ?” “गोतम ! द्वात्रिंशत्सागरोपमा स्थितिः प्रज्ञप्ता” “स नु भगवन् ! ततो देवलोकादायुःक्षयेण (स्थितिक्षयेण, भव-क्षयेण) कुत्र गमिष्यति ?” “गोतम! महाविदेहेवर्षे सेत्स्यति।" तदेवं जम्बु! श्रमणेन यावत्संप्राप्तेनाऽनुत्तरोपपातिकदशानां प्रथम-वर्गस्य प्रथमाध्ययनस्यायमर्थः प्रज्ञप्तः । प्रथम