________________
१११
ज्ञानार्णवः। अनेकवस्तुसंपूर्ण जगद्यस्य चराचरम् । स्फुरत्यविकलं बोधविशुद्धादर्शमण्डले ।। १४ ।। खभावजमसंदिग्धं निर्दोष सर्वदोदितम् । यस्य विज्ञानमत्यक्षं लोकालोकं विसर्पति ॥ १५ ॥ यस्य विज्ञानधर्मांशु-प्रभाप्रसरपीडिताः । क्षणादेव क्षयं यान्ति खद्योता इव दुर्नयाः ॥ १६ ॥ पादपीठीकृताशेषत्रिदशेन्द्रसभाजिरम् । योगिगम्यं जगन्नाथं गुणरत्नमहार्णवम् ॥ १७ ॥ पविनितधरापृष्टं समुद्धतजगत्रयम्।। मोक्षमार्गप्रणेतारमनन्तं पुण्यशासनम् ॥ १८॥ . भामण्डलनिरुद्धार्कचन्द्रकोटिसमप्रभम् । शरण्यं सर्वगं शान्तं दिव्यवाणीविशारदम् ।। १९ ।। अक्षोरगशकुन्तेशं सर्वाभ्युदयमन्दिरम् । दुःखाणेवपतत्सत्वदत्तहस्तावलम्बनम् ॥ २०॥ मृगेन्द्रविष्टरारूढं मारमातङ्गयातकम् । इन्दुनयसमोद्दामच्छन्त्रत्रयविराजितम् ॥ २१ ॥ हंसालीपातलीलाढ्यं चामरनजवीजितम् । वीततृष्णं जगन्नाथं वरदं विश्वरूपिणम् ॥ २२ ॥ दिव्यपुष्पानकाशोकराजितं रागवर्जितम् ।। प्राति हायमहालक्ष्मीलक्षितं परमेश्वरम् ॥ २३ ॥ नवकेवललब्धिश्रीसंभवं खात्मसंभवम् । तूर्यध्यानमहावह्नौ हुतकमैन्धनोत्करम् ॥ २४ ॥ रत्नत्रयसुधास्यन्दमन्दीकृतभवश्रमम् । वीतसंगं जितदैतं शिवं शान्तं सनातनम् ॥ २५ ॥ अर्हन्तमजमव्यक्तं कामदं कामनाशकम् । पुरीणपुरुषं देवं देवदेवं जिनेश्वरम् ॥ २६ ॥ विश्वनेत्रं जगबन्धं योगिनाथं महेश्वरम् । ज्योतिर्मयमनाद्यन्तं त्रातारं भुवनेश्वरम् ॥ २७ ॥ योगीश्वरं तमीशानमादिदेवं जगद्गुरुम् ।
अनन्तमच्युतं शान्तं भावन्तं भूतनायकम् ॥२८॥ १'चतुर्मखम्' इत्यपि पाठः ।