________________
REETERESERSEEEEEEEEEEEER गोलेच्छाजैन ग्रंथमालासंरक्षकस्मृतिः । TRESSISTANER NISATTA जन्मभूमेर्जनन्या व सेवायां प्राणयागिनाम् । -क्षत्रियाणां विशां ब्रह्म-वेदिनां धैर्यशालिनाम् ॥ १॥ योधानां जैनधर्मिणां शौर्य-वीर्यपूजायुजाम् । इतिहासप्रसिद्ध वै मारवाडे सुनीवृति ॥ २ ॥ ख्यातश्च खीचनग्रामो गोलेच्छावंशशोभनः । अग्रचन्द्रश्च तत्रासोत् श्रेष्ठी श्रेष्ठिशिरोमणिः ॥ ३ ॥ तद्गार्या चूनिबाई-ति सरला वत्सलाऽमला। . अग्रचन्द्रात्मजौ चूनि-जनूजौ नरपुंगवौ ।। ४ ।। ज्येष्ठमल्लस्तयोर्येष्ठः शंकरः शंकरऽपरः । तावेतौ स्नेहिनौ बन्धू राम-लक्ष्मणलक्षणौ ॥ ५ ॥ तेजस्विनौ वदान्यौ च विद्याभक्तौ विवेकिनौ । जैनधर्मपरौ मान्यौ मातापित्रोचं पूजको ॥ ६ ॥ कलिभीरू इवाऽज्पेन वयसा प्राप्तपञ्चतौ । तदेतेषां सपितॄणां पुण्यस्मरणहेतवे ॥ ७ ॥ ज्येष्ठमल्लात्मजो मान-सल्लो नम्रशिरोमणिः । -सत्साहित्यप्रकाशाय संकल्पमकरोद् वरम् ॥ ८ ॥ तत्साहाय्यं च संप्राप्य विविधग्रन्थसत्सुमा । गोलेच्छाग्रन्थमालेयं संपाद्यते प्रकाश्यते ॥ ९ ॥