________________
___-प्रवचनसीरः - - - ३७५
प्रशस्तिः । नाथान्वयं नमस्कृत्य भव्यसारङ्गवाच्चम् । संग्रश्नामि प्रशस्ति हि नानाशब्दविराजिताम् ॥१॥ मुक्तिश्रीर्यस्य कान्ता प्रसभमखिलं वोटितं कर्मवन्धं येन ध्यानेन प्लुष्टं निखिलभवतरं पातु वो नेमिनाथः । ज्ञानाक्षिानमूर्तिः सकलमुनिजनैः सेव्यमानो यतीन्द्रो भव्यानां यो हि चिन्त्यः सकलगुणनिधिदैवनाथो जितारिः ॥२॥ विक्रमादित्यराज्येऽस्मिंश्चतुर्दशपरे शते । नवषष्ट्या युते किंनु गोपाद्रौ देवपत्तने ॥ ३॥ अनेकभूभुक्पदपद्मलग्नस्तस्मिन्निवासी ननु पाररूपः। शृङ्गारहारो भुवि कामिनीनां भूभुक् प्रसिद्धः श्रीवीरमेद्रः॥४॥ मदनारिगृहं तत्र मदविध्वंसनक्षमम् । वैडूर्यघटितं मन्ये किं देवैश्चात्र निर्मितम् ॥ ५॥ ननु शक्रस्यादेशेन धनदेनात्र निर्मितम् । कंसतालैश्च घण्टाद्यैर्वृते यत्स्वर्गिभिः सह ॥ ६ ॥ कामिन्यो यत्र गायन्ति नृत्यन्ति हि स्वभावतः। पठन्ति विदुषः पाठं निरवयं कृते मुदः ॥७॥ श्रीकाष्ठसंधे जगति प्रसिद्ध महहणौधे त्रयमाथुरान्वये । सदा सदाचारविचारदक्षे गणे सुरम्ये वरपुष्कराख्ये ॥ ८॥ मुनीश्वरोऽभून्नयसेनदेवः कृशाष्टकर्मा यशसां निवासः। पट्टे तदीये मुनिरश्वसेन आसीत्सदा ब्रह्मणि दत्तचेताः ॥९॥ पट्टे तदीये शुभकर्मनिष्ठोऽप्यनन्तकीर्तिर्गुणरत्नवाधिः।मुनीश्वरोऽभूजिनशासनेन्दुस्तत्पट्टधारी भुवि क्षेमकीर्तिः ॥ १०॥ पट्टे तदीये ननु हेमकीर्तिस्तपःप्रभानिर्जितभानुभानुः । रतत्रयालङ्कृतधर्ममूर्तियतीश्वरोऽभूजगति प्रसिद्धः ॥ ११॥ यतिपंपादकुशेशयषट्दः परमधर्मधरः किमु भूधरः । न हि जडः किं नगः खलु चन्द्रमा न हि विधुः स कलङ्कविवर्जितः ॥ १२॥ पारावारो हि लोके यो जनानिमिषसेवितः। देवकीर्तिमुनिः साक्षात्परं क्षारविवर्जितः ॥ १३ ॥ व्याख्यायैव गुरुः साक्षात्पशुधर्मविनिर्गतः । पद्मकीर्तिमुनिर्भाति परं रागविवर्जितः॥१४॥ दिगम्बरोऽभूद्भुवि मेरुपर्वतः सुवर्णवर्णैः किमु सोऽप्यजगमः। सरित्पतिः किं जलक्षारवर्जितो नक्षत्रराजः स कलङ्कनिर्गतः ॥ १५॥ प्रतापचन्द्रो हि मुनिप्र.
धानः स्वव्याख्यया रञ्जितसर्वलोकः । नियन्त्रितात्मीयमनोविहङ्गो विवादिभूभृत्कुलिशो . नितान्तम् ॥ १६ ॥ गुणरत्नैरकूपारो भवभ्रमणशङ्कितः । हेमचन्द्रो यतिः साक्षात्परं पाहविवर्जितः ॥ १७ ॥ ग्लावः साम्यं रत्नसानोः स्थिरत्वं भानोः सूर्यः सूर्यकारोश्च रूपम् । गम्भीरत्वं पयोधेः प्रसभमखिलं त्यागमेवं बलेश्च 'संगृहीत्वा विधात्रा किमुत निजवला
टीकाकारस्य प्रशस्तिः । अज्ञानतमसा लिप्ती मार्गो रत्नत्रयात्मकः । तत्प्रकाशसमर्थाय नमोऽस्तु कुमुदन्दवे ॥१॥ सूरिश्रीवीरसेनाख्यो मूलसंघेऽपि सत्तपाः। नैर्ग्रन्थ्यपदवीं भेजे जातरूपधरोऽपि यः ॥ २॥ ततः श्रीसोमसेनोऽभूगणी गुणगणाश्रयः । तद्विनेयोऽस्ति यस्तस्मै जयसेनतपोभृते ॥ ३ ॥ शीघ्रं बभूव माल ? साधुः सदा धर्मरतो वदान्यः । सूनुस्ततः साधुमहीपतिर्यस्तस्मादयं चारुभटस्सनूजः ॥ ४ ॥ यः संततं सर्वविदः सपर्यामार्यक्रमाराधनया करोति । स श्रेयसे प्राभृतनामग्रन्थपुष्टापितुर्भक्तिविलोपभीरुः ॥ ५॥ श्रीमत्रिभुवनचन्द्र निजमतवाराशितायना चन्द्रम् । प्रणमामि कामनामप्रवलमहापर्वतैकशतधारम् ॥ ६ ॥ जगत्समस्तसंसारि