________________
६६.] -प्रवचनसार:
३५७ अथ श्रामण्येनाधिकं हीनमिवाचरतो विनाशं दर्शयति
गुणदोधिगस्स विणयं पडिच्छणो जो वि होमि समणो त्ति। ' होजं गुणाधरो जदि सो होदि अणंतसंसारी ॥६६॥ .
गुणतोऽधिकस्य विनयं प्रत्येषको योऽपि भवामि श्रमण इति ।
भवन् गुणाधरो यदि स भवत्यनन्तसंसारी ॥६६॥ श्रुतानां श्रुतफलं नास्ति तपोधनानां तपःफलं चेति ॥ ६५ ॥ अत्राह शिष्यः-अपवादव्याख्यानप्रस्तावे शुभोपयोगो व्याख्यातः पुनरपि किमर्थ अत्र व्याख्यानं कृतमिति । परिहारमाह-- युक्तमिदं भवदीयवचनं किंतु तत्र सर्वत्यागलक्षणोत्सर्गव्याख्याने कृते सति तत्रासमर्थतपोधनैः कालापेक्षया किमपि ज्ञानसंयमशौचोपकरणादिकं ग्राह्यमित्यपवादव्याख्यानमेव मुख्यम् । अत्र तु यथा भेदनयेन सम्यग्दर्शनज्ञानचारित्रतपश्चरणरूपा चतुर्विधाराधना भवति । सैवाभेदनयेन सम्यक्त्वचारित्ररूपेण द्विधा भवति । तत्राप्यभेदविवक्षया पुनरेकैव वीतरागचारित्राराधना । तदा भेदनयेन सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चारित्ररूपनिविधमोक्षमार्गो भवति । स एवाभेदनयेन श्रामण्यापरमोक्षमार्गनामा पुनरेक एव स चाभेदरूपो मुख्यवृत्त्या 'एयग्गगदो समणो' इत्यादि चतुर्दशगाथामिः पूर्वमेव व्याख्यातः । अयं तु भेदरूपो मुख्यवृत्त्या शुभोपयोगरूपेणेदानी व्याख्यातो नास्ति पुनरुक्तदोष इति । एवं समाचारविशेषविवरणरूपेण चतुर्थस्थले गाथाष्टकं गतम् । अथ स्वयं गुणहीनः सन्नपरेषां गुणाघिकानां योऽसौ विनयं वाञ्छति तस्य गुणविनाशं दर्शयति-स होदि अणंतसंसारी स कथंचिदनन्तसंसारे संभवति । यः किं करोति । पडिच्छगो जो वि प्रत्येषको यस्तु अभिलाषकोऽपेक्षक इति । कम् । विणयं वन्दनादिविनयम् । कस्य संबन्धिनम् । गुणदोधिगस्स बाह्याभ्यन्तररत्नत्रयगुणाभ्यामधिकस्यान्यतपोधनस्य । केन कृत्वा । होसि समणो त्ति अहमपि श्रमणो भवामीत्यभिमानेन गर्वेण । यदि किम् । होज गुणाधरो जदि निश्चयव्यवहाररतंत्रयगुणाभ्यां हीनः खयं यदि चेद्भवतीति । अयमत्रार्थः-यदि चेद्गुणाधिकेभ्यः सकाशाद्गर्वेण पूर्व विनयवाञ्छां करोति पश्चाद्विवेकवलेनात्मनिन्दां करोति तदानन्तसंसारी न भवति चारित्री होता है ॥६५॥ आगे जो यतिपनेसे उत्कृष्ट है, उसको जो अपनेसे हीन आचरे वह अनंतसंसारी है, यह दिखलाते हैं-य:] जो मुनि [ अहं श्रमणः ] मैं यती [ भवामि ] हूँ, [इति ] ऐसे अभिमानसे [गुणतः अधिकस्य ] ज्ञान संयमादि गुणोंकर उत्कृष्ट महामुनियोंसे [विनयं] आदरको प्रत्येषकः] चाहता है, वह [यदि ] जो [गुणाधरः] गुणोंको नहीं धारण करनेवाला [ भवन् ] हुआ संता [ सः] झूठे गर्वका करनेवाला, वह [अनंतसंसारी ] अनंत संसारका भोगने वाला [भवति ] होता है । भावार्थ-जो कोई महामुनिके पाससे अपना विनय चाहता है, और कहता है, क्या हुआ जो ये गुणोंसे अधिक हैं, मैं भी तो यति हूँ, ऐसा