________________
३२८ . . - रायचन्द्रजैनशास्त्रमाला - [अ० ३, गा०३७ज्ञेयाकारकरम्बितविशदैकज्ञानाकारमात्मानं न तथा प्रत्येति तदा यथोदितात्मनः श्रद्धानशून्यतया यथोदितमात्मानमननुभवन् कथं नाम ज्ञेयनिमग्नो ज्ञानविमूढोऽज्ञानी स्यात् । अज्ञानिनश्च ज्ञेयद्योतको भवन्नप्यागमः किं कुर्यात् । ततः श्रद्धानशून्यादागमान्नास्ति सिद्धिः । किंच-सकलपदार्थज्ञेयाकारकरम्बितविशदैकज्ञानाकारमात्मानं श्रद्दधानोऽप्यनुभवन्नपि यदि स्वस्मिन्नेव संयम्य न वर्तयति तदानादिमोहरागद्वेषवासनोपजनितपरद्रव्यचक्रमण
खैरिण्याश्चिद्वृत्तेः स्वस्मिन्नेव स्थानान्निर्वासननिःकम्पैकतत्त्वमूछितद्वृत्त्यभावात्कथं नाम संयतः स्यात् । असंयतस्य च यथोदितात्मतत्त्वप्रतीतिरूपं श्रद्धानं यथोदितात्मतत्त्वानुभूतिरूपं ज्ञानं वा किं कुर्यात् । ततः संयमशून्यात् श्रद्धानात् ज्ञानाद्वा नास्ति सिद्धिः । अत आगमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानामयोगपद्यस्य मोक्षमार्गत्वं विघटेतैव ॥ ३७॥ नासंयतो वा न निर्वाति निर्वाणं न लभत इति । तथाहि-यथा प्रदीपसहितपुरुषस्य कूपपतनप्रस्तावे कूपपतनान्निवर्तनं मम हितमिति निश्चयरूपं श्रद्धानं यदि नास्ति तदा प्रदीपः किं करोति न किमपि । तथा जीवस्यापि परमागमाधारण सकलपदार्थज्ञेयाकारकरावलम्बितविशदैकज्ञानरूपं . खात्मानं जानतोऽपि ममात्मैवोपादेय इति निश्चयरूपं यदि श्रद्धानं नास्ति तदास्य प्रदीपस्थानीय आगमः किं करोति न किमपि । यथा वा स एव प्रदीपसहितपुरुषः स्वकीयपौरुषबलेन कूपपतनाद्यदि न निवर्तते तदा तस्य श्रद्धानं प्रदीपो दृष्टिा किं करोति न किमपि । तथायं जीवः श्रद्धानज्ञानसहितोऽपि पौरुषस्थानीयचारित्रबलेन रागादिविकल्परूपादसंयमाद्यदि न निवतते तदा तस्य श्रद्धानं ज्ञानं वा किं कुर्यान्न किमपीति । अतः एतदायाति परमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वानां मध्ये द्वयेनैकेन वा निर्वाणं नास्ति किंतु त्रयेणेति ॥ ३७ ॥ एवं करता है, तो भी अज्ञानीको कुछ कार्यकारी नहीं होसकता, क्योंकि अज्ञानी श्रद्धानसे रहित है, इसलिये उसको आगमसे कुछ फलकी सिद्धि नहीं होती । यद्यपि सकल ज्ञेय पदार्थोकर प्रतिविम्बित निर्मल ज्ञानाकार आत्माका कोई श्रद्धान भी करता है, कोई जीव अनुभव भी करता है, तो भी वही जीव अपने में जो संयम भाव धरके निश्चल होके नहीं प्रवर्ते, तो उस संयमीके जैसा कुछ कहा है, वैसा ही आत्मतत्त्वकी प्रतीतिरूप श्रद्धान क्या करे, और यथार्थ आत्मतत्त्वकी अनुभूतिरूप ज्ञान भी संयमभाव विना क्या करे, क्योंकि यह जीव अनादि कालसे लेकर राग, द्वेष, मोहकी वासनासे परमें लगा हुआ है, इसकारण इस जीवकी अशुद्ध चेतनारूपी व्यभिचारिणी स्त्री परभावोंमें रमती है, अपने आत्मीक-रसमें मग्न नहीं होती । परवासनासे रहित निष्कंप एक आत्मीक-तत्त्वमें संयमभाव विना स्थिरता नहीं होती, इसलिये संयमभाव रहित श्रद्धानसे वा ज्ञानसे मोक्ष नहीं होता, जब आगम-ज्ञान, तत्त्वार्थश्रद्धान, और संयमभाव इन तीनोंकी एकता हो, तभी मोक्षमार्ग होता है, ऐसा तात्पर्य समझना ॥ ३७॥ आगे आगम-ज्ञान, तत्त्वार्थः ।