________________
५१.)
--प्रवचनसारः
२०३ अथ सर्ववृत्त्यशेषु समयपदार्थस्योत्पादव्ययध्रौव्यवत्त्वं साधयति
एगम्हि संति समये संभवठिदिणाससपिणदा अहा। समयस्स सबकालं एस हि कालाणुसम्भावो ॥५१॥
एकस्मिन् सन्ति समये संभवस्थितिनाशसंज्ञिता अर्थाः ।
समयस्य सर्वकालं एष हि कालाणुसद्भावः ॥ ५१ ॥ अस्ति हि समस्तेष्वपि वृत्त्यंशेषु समयपदार्थस्योत्पादव्ययध्रौव्यत्वमेकस्मिन् वृत्त्यंशे तस्य दर्शनात् , उपपत्तिमचैतत् विशेषास्तित्वस्य सामान्यास्तित्वमन्तरेणानुपपत्तेः । अयमेव च समयपदार्थस्य सिद्ध्यति सद्भावः । यदि विशेषसामान्यास्तित्वे सिद्ध्यतस्तदा त अस्तित्वमन्तरेण न सिद्ध्यतः कथंचिदपि ॥५१॥
अथ कालपदार्थस्यास्तित्वान्यथानुपपत्त्या प्रदेशमात्रत्वं साधयतिप्रकारेण यथा वर्तमानसमये कालद्रव्यस्योत्पादव्ययध्रौव्यत्वं स्थापितं तथा सर्वसमयेष्वस्तीति निश्चिनोति-एगम्हि संति समये संभवठिदिणाससण्णिदा अट्ठा एकस्मिन्समये सन्ति विद्यन्ते । के । संभवस्थितिनाशसंज्ञिता अर्थाः धर्माः खभावा इति यावत् । कस्य संबन्धिनः । समयस्स समयरूपपर्यायस्योत्पादकत्वात् । समयः कालाणुस्तस्य सबकालं यद्येकस्मिन् वर्तमानसमये सर्वदा तथैव एस हि कालाणुसब्भावो एष प्रत्यक्षीभूतो हि स्फुटमुत्पादव्ययध्रौव्यात्मककालाणुसद्भाव इति । तद्यथा-यथा पूर्वमेकसमयोत्पादप्रध्वंसाधारेणाङ्गुलिद्रव्यादिदृष्टान्तेन वर्तमानसमये कालद्रव्यस्योत्पादव्ययध्रौव्यत्वं स्थापितं तथा सर्वसमयेषु ज्ञातव्यमिति । अत्र यद्यप्यतीतानन्तकाले दुर्लभायाः सर्वप्रकारोपादेयभूतायाः सिद्धगतेः काललब्धिरूपेण बहिरङ्गसहकारी भवति कालस्तथापि निश्चयनयेन निजशुद्धात्मतत्त्वसम्यकूश्रद्धानज्ञानानुष्ठानसमस्तपरद्रव्येच्छानिरोधलक्षणरूपा तपश्चरणरूपा या तु तिश्चयचतुर्विधाराधना सैव तत्रोत्पादनकारणं न च कालस्तेन कारणेन स हेय इति भावार्थः ॥ ५१ ॥ अथोत्पादव्ययध्रौव्यात्मकास्तित्वावष्टम्भेन पर्यायोंमें कालपदार्थके उत्पाद-व्यय-ध्रौव्य सिद्ध होते हैं, ऐसा कहते हैं-[ एकस्मिन् समये ] एक समयपर्यायमें [ समयस्य ] कालाणुरूप कालपदार्थके [संभवस्थितिनाशसंज्ञिताः] उत्पाद, स्थिति, नाश नामके [अर्थाः ] तीनों भाव [ सन्ति ] प्रवर्तते हैं, [ एषः हि ] यह उत्पाद, व्यय, धौव्यरूप ही [ कालाणुसद्भावः ] कालद्रव्यका अस्तित्व [ सर्वकालं ] सदाकाल रहता है । भावार्थ-एक ही समय कालपदार्थके उत्पाद, व्यय, और ध्रौव्य ये तीनों भाव होते हैं, और जैसे कालद्रव्य एकसमयमें उत्पाद, व्यय, ध्रुवरूप परिणमन करता है, उसी प्रकार सव समयोंमें भी परिणमता है। कालाणुद्रव्य तो ध्रुव रहता है, परन्तु पूर्वसमयका नाश और आगेके
का उत्पाद होता है। इस तरह ये तीनों भाव सदैव सिद्ध होते हैं ॥५१॥ कालपदार्थ प्रदेशमान कालाणुरूप न होवे, तो उत्पाद, व्यय, ध्रौव्यरूप अस्तित्व