________________
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ४७क्रमतः परमाणोस्तप्रदेशमात्रातिक्रमणपरिमाणेन तेन समो यः कालपदार्थसूक्ष्मवृत्तिरूप- .. समयः स तस्य कालपदार्थस्य पर्यायस्ततः एवंविधात्पर्यायात्पूर्वोत्तरवृत्तिवृत्तत्वेन व्यञ्जितनित्यत्वे योऽर्थः तत्तु द्रव्यम् । एवमनुत्पन्नाविध्वस्तो द्रव्यसमयः, उत्पन्नप्रध्वंसी पर्यायसमयः । अनंशः समयोऽयमाकाशप्रदेशस्यानंशत्वान्यथानुपपत्तेः । न चैकसमयेन परमाणोरालोकान्तगमनेऽपि समयस्य सांशत्वं विशिष्टगतिपरिणामाद्विशिष्टावगाहपरिणामवत् । तेन कालाणुव्याप्तकप्रदेशपुद्गलपरमाणुमन्दगतिगमनेन समः समानः सदृशस्तत्समः समओ कालाणुद्रव्यस्य सूक्ष्मपर्यायभूतः समयो व्यवहारकालो भवतीति पर्यायव्याख्यानं गतम् । तदो परो पुबो तस्मात्पूर्वोक्तसमयरूपकालपर्यायात्परो भाविकाले पूर्वमतीतकाले च जो अत्थो यः पूर्वपर्यायेष्वन्वयरूपेण दत्तपदार्थो द्रव्यं सो कालो स कालः कालपदार्थों भवतीति द्रव्यव्याख्यानम् । समओ उप्पण्णपद्धंसी स पूर्वोक्तसमयपर्यायो यद्यपि पूर्वापरसमयसन्तानापेक्षया संख्येयासंख्येयानन्तसमयो भवति, तथापि वर्तमानसमयं प्रत्युत्पन्नप्रध्वंसी । यस्तु पूर्वो- , क्तद्रव्यकालः स त्रिकालस्थायित्वेन नित्य इति । एवं कालस्य पर्यायस्वरूपं द्रव्यखरूपं च ज्ञातव्यम् ॥ अथवानेन गाथाद्वयेन समयरूपव्यवहारकालव्याख्यानं क्रियते निश्चयकालव्याख्यानं तु 'उप्पादो पद्धंसो' इत्यादि गाथात्रयेणाने करोति । तद्यथा । समओ परमार्थकालस्य पर्यायभूतसमयः । अवप्पदेसो अपगतप्रदेशो द्वितीयादिप्रदेशरहितो निरंश इत्यर्थः । कथं निरंश . इति चेत् । पदेसमेत्तस्स दवियजादस्स प्रदेशमात्रपुद्गलद्रव्यस्य संवन्धी योऽसौ परमाणुः .. वदिवादादो वट्टदि व्यतिपातात् मन्दगतिगमनात्सकाशात्स परमाणुस्तावद्गमनरूपेण वर्तते । कं प्रति । पदेसमागासदवियस्स विवक्षितैकाकाशप्रदेशं प्रति । इति प्रथमगाथाव्याख्यानम् । वदिवददो तं देसं स परमाणुस्तमाकाशप्रदेशं यदा व्यतिपतितोऽतिक्रान्तो भवति तस्सम समओ तेन पुद्गलपरमाणुमन्दगतिगमनेन समः समानः समयो भवतीति निरंशत्वमिति वर्तमानसमयो व्याख्यातः । इदानीं पूर्वपरसमयौ कथयति-तदो परो पुवो तस्मात्पूर्वोक्तवर्तमानसमयात्परो भावी कोऽपि समयो भविष्यति पूर्वमपि कोऽपि गतः अत्थो, जो एवं यः पदार्थ [ समयः ] समयनामा पर्याय कहा जाता है । [ततः] उस पर्यायसे [परः पूर्वः ] आगे तथा पहले [यः ] जो नित्यभूत [ अर्थः ] पदार्थ है, [सः ] वह .. [काल: ] कालनामा द्रव्य है । भावार्थ-एक आकाशके प्रदेशमें जो कालाणु है, वह दूसरे प्रदेश में रहनेवाले कालाणुसे कदापि नहीं मिलता, इस कारण जब पुद्गल-परमाणु एक प्रदेशसे दूसरे प्रदेश ( जगह ) में जाता है, तव पहले प्रदेझमें रहनेवाले कालाणुसे दूसरे प्रदेशवर्ति कालाणुमें भेद है, संयोग नहीं है, क्योंकि उसमें मिलन-शक्तिका अभाव . . है। इस कारण सूक्ष्म कालका समय नामका पर्याय पुद्गलकी मंद गतिसे प्रगट जाना जाता ... है। जो कालाणु भिन्न नहीं होते, तथा उनमें मिलने की शक्ति होती, तो समय-पर्याय कमी नहीं होता । अखंड एक द्रव्यके परिणमनसे तथा कालाणुके भिन्न होनेसे समय