________________
-प्रवचनसार:
११७ ज्ञानतत्त्वं यथावत्तत्सिद्ध्यर्थं प्रशमविषयं ज्ञेयतत्त्वं बुभुत्सुः । सर्वानर्थान् कलयति गुणद्रव्यपर्याययुक्त्या प्रादुर्भूतिर्न भवति यथा जातु मोहाङ्करस्य ॥ २॥" __इति प्रवचनसारवृत्तौ तत्त्वदीपिकायां श्रीमदमृतचन्द्रसूरिविरचितायां ज्ञानतत्त्वप्रज्ञापनो नाम प्रथमः श्रुतस्कन्धः समाप्तः ॥ १॥ दत्ते पुण्यं गृह्णाति इत्यर्थः ॥ ८ ॥ अथ तेन पुण्येन भवान्तरे किं फलं भवतीति प्रतिपादयति
तेण णरा व तिरिच्छा देविं वा माणुसिं गदि पप्पा।
विहविस्सरियेहि सया संपुण्णमणोरहा होंति ॥ *९ ॥ (१०१) तेण णरा व तिरिच्छा तेन पूर्वोक्तपुण्येनात्र वर्तमानभवे नरा वा तिर्यञ्चो वा देवि वा माणुसिं गर्दि पप्पा भवान्तरे दैवीं वा मानुषी वा गतिं प्राप्य विहविस्सरियेहिं सया संपुण्णमणोरहा होति राजाधिराजरूपलावण्यसौभाग्यपुत्रकलत्रादिपरिपूर्णविभूतिर्विभवो भण्यते, आज्ञाफलमैश्वर्यं भण्यते, ताभ्यां विभवैश्वर्याभ्यां संपूर्णमनोरथा भवन्तीति । तदेव पुण्यं भोगादिनिदानरहितत्वेन यदि सम्यक्त्वपूर्वकं भवति तर्हि तेन परंपरया मोक्षं लभत इति भावार्थः ॥९॥
इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ पूर्वोक्तप्रकारेण 'एस सुरासुरमणुसिंदवंदियं इतीमां गाथामादिं कृत्वा द्वासप्ततिगाथाभिः शुद्धोपयोगाधिकारः, तदनन्तरं 'देवदजदिगुरुपूजासु' इत्यादि पञ्चविंशतिगाथाभिर्ज्ञानकण्ठिकाचतुष्टयाभिधानो द्वितीयोऽधिकारः, ततश्च 'सत्तासंबद्धेदे' इत्यादि सम्यक्त्वकथनरूपेण प्रथमा गाथा, रत्नत्रयाधारपुरुषस्य धर्मः संभवतीति 'जो णिहदमोहदिट्ठी' इत्यादि द्वितीया चेति खतगाथाद्वयम् , तस्य निश्चयधर्मसंज्ञतपोधनस्य योऽसौ भक्तिं करोति तत्फलकथनेन 'जो तं दिट्ठा' इत्यादि गाथाद्वयम् । इत्यधिकारद्वयेन पृथग्भूतगाथाचतुष्टयसहितेनैकोत्तरशतगाथामिानतत्त्वप्रतिपादकनामा प्रथमो महाधिकारः समाप्तः ॥ १॥
पद-गर्भित जिनप्रणीत शब्द ब्रह्म जयवंत होओ, जिसके प्रसादसे आत्म-तत्त्वकी प्राप्ति हुई, और उस आत्म-तत्त्वकी प्राप्तिसे अनादिकालकी मोहरूपी गाँठ छूटकर परम वीतरागचारित्र प्राप्त हुआ, इसीलिये शुद्धोपयोग संयम भी जयवंत होवै, जिसके प्रसादसे यह आत्मा आप धर्मरूप हुआ ॥
इति श्रीपांडेहेमराजकृत श्रीप्रवचनसार सिद्धान्तकी वालावबोध
भाषाटीकामें ज्ञानतत्त्वका अधिकार पूर्ण हुआ ॥ १॥
.१ इस टीकामें १०१ गाथाकी रचना है, और दूसरी श्रीप्रभाचन्द्रजीकृत सरोजभास्करटीकामें भी १०१ हा का वर्णन है। श्रीमदमृतचंद्राचार्यने ९ गाथाओंका व्याख्यान नहीं किया, न मालूम क्या कारण हैं। बुद्धिमान् इस बातका विचार कर लेवें । इसी तरह आगे भी कुछ गाथायें ऐसी हैं, कि क्षेपककी तरह टीकाकारने छोड़ दीये हैं।