________________
११६
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ९२ * ८यो निहतमोहदृष्टिरागमकुशलो विरागचरिते ।
अभ्युत्थितो महात्मा धर्म इति विशेषितः श्रमणः ॥ ९२ ॥ यदयं स्वयमात्मा धर्मो भवति स खलु मनोरथ एव, तस्य त्वेका बहिर्मोहदृष्टिरेव विहन्त्री। सा चागमकौशलेनात्मज्ञानेन च निहता, नात्र मम पुनर्भावमापत्स्यते । ततो वीतरागचारित्रसूत्रितावतारो ममायमात्मा स्वयं धर्मों भूत्वा निरस्तसमस्तप्रत्यूहतया नित्यमेव निष्कम्प एवावतिष्ठते । अलमतिविस्तरेण ॥९२॥ स्वस्ति स्याद्वादमुद्रिताय जैनेन्द्राय शब्दब्रह्मणे । स्वस्ति तन्मूलायात्मतत्त्वोपलम्भाय च, यत्प्रसादादुद्रन्थितो झगित्येवासंसारबद्धो मोहग्रन्थिः । स्वस्ति च परमवीतरागचारित्रात्मने शुद्धोपयोगाय, यत्प्रसादादयमात्मा स्वयमेव धर्मों भूतः ॥ "आत्मा धर्मः स्वयमिति भवन् प्राप्य शुद्धोपयोगं नित्यानन्दप्रसरसरसं ज्ञानतत्त्वे निलीय । प्राप्स्यत्युच्चैरविचलतया निःप्रकम्पप्रकाशां स्फूर्जज्योतिः सहजविलसद्रत्नदीपस्य लक्ष्मीम् ॥१॥" "निश्चित्यात्मन्यधिकृतमिति प्रणीतपरमागमाभ्यासेन निरुपाधिस्वसंवेदनज्ञानकुशलत्वादागमकुशल आगमप्रवीणः । पुनश्च किंरूपः । विरागचरियम्हि अन्भुट्टिदो व्रतसमितिगुहयादिबहिरङ्ग चारित्रानुष्ठानवशेन खशुद्वात्मनि निश्चलपरिणतिरूपवीतरागचारित्रपरिणतत्वात् परमवीतरागचारित्रे सम्यगम्युत्थितः उद्यतः । पुनरपि कथंभूतः । महप्पा मोक्षलक्षणमहार्थसाधकत्वेन महात्मा धम्मो त्ति विसेसिदो समणो जीवितमरणलाभालाभादिसमताभावनापरिणतात्मा स श्रमण एवाभेदनयेन धर्म इति विशेषितो मोहक्षोभविहीनात्मपरिणामरूपो निश्चयधर्मो भणित इत्यर्थः ॥ ९२ ॥ अथैवंभूतनिश्चयरत्नत्रयपरिणतमहातपोधनस्य योऽसौ भक्तिं करोति तस्य फलं दर्शयति
जो तं दिट्ठा तुट्ठो अब्भुद्वित्ता करेदि सकारं । .
वंदणणमंसणादिहिं तत्तो सो धम्ममादियदि ॥८॥ जो तं दिहा तुट्ठो यो भव्यवरपुण्डरीको निरुपरागशुद्धात्मोपलम्भलक्षणनिश्चयधर्मपरिणतं पूर्वसूत्रोक्तं मुनीश्वरं दृष्ट्वा तुष्टो निर्भरगुणानुरागेण संतुष्टः सन् । किं करोति । अन्भुट्टित्ता करेदि सकारं अभ्युत्थानं कृत्वा मोक्षसाधकसम्यक्त्वादिगुणानां सत्कारं प्रशंसां करोति वंदणणमंसणादिहिं तत्तो सो धम्ममादियदि 'तवसिद्धे णयसिद्धे' इत्यादि वन्दना भण्यते, नमोऽस्त्विति नमस्कारो भण्यते, तत्प्रभृतिभक्तिविशेपैः तस्माद्यतिवरात्स भव्यः पुण्यमासिद्धान्तमें प्रवीण अर्थात् सम्यग्ज्ञानी है, और [विरागचारित्रे] रागभाव रहित चारित्रमें [अभ्युत्थितः] सावधान है, तथा [ महात्मा ] श्रेष्ट मोक्षपदार्थके साधनेमें प्रधान है। [सश्रमणः] वह मुनीश्वर [धर्म इति] धर्म है, ऐसा [विशेषितः विशेप लक्षणोंसे कहा गया है। भावार्थ-यह आत्मा वीतरागभावरूप परिणमन करके साक्षात् आप ही धर्मरूप है । इस आत्माकी घातक जो एक मोहदृष्टि है, वह तो आगम-कुशलता और आत्म-ज्ञानसे विनाशको प्राप्त हुई है, इस कारण मेरे फिर उत्पन्न होनेवाली नहीं है। इसलिये वीतरागचारित्रसे यह मेरा आत्मा धर्मरूप होकर सब शत्रुओंसे रहित सदाकाल ही निश्चल स्थित है । अधिक कहनेसे क्या 'स्यात!