________________
. " ( .
- प्रवचनसारः... .. युक्तः शुभेन आत्मा तिर्यग्वा मानुषो वा देवो वा।
भूतस्तावत्कालं लभते सुखमैन्द्रियं विविधम् ॥ ७० ॥. . अयमात्मेन्द्रियसुखसाधनीभूतस्य शुभोपयोगस्य सामर्थ्यात्तदधिष्ठानभूतानां तिर्यग्मानुषदेवत्वभूमिकानामन्यतमां भूमिकामवाप्य यावत्कालमवतिष्ठते, तावत्कालमनेकप्रकारमिन्द्रियसुखं समासादयतीति ॥ ७० ॥ अथैवमिन्द्रियसुखमुत्क्षिप्य दुःखत्वे प्रक्षिपति
सोक्खं सहावसिद्धं णस्थि सुराणं पि सिद्धमुवदेसे । ते देहवेदणट्टा रमंति विसएसु रम्मेसु ॥ ७१॥ - सौख्यं स्वभावसिद्धं नास्ति सुराणामपि सिद्धमुपदेशे ।
ते देहवेदनार्ता रमन्ते विषयेषु रम्येषु ॥ ७१॥ • इन्द्रियसुखभाजनेषु हि प्रधाना दिवौकसः, तेषामपि स्वाभाविकं न खलु सुखमस्ति मुक्तो भूत्वाऽयं जीवोऽनन्तकालमतीन्द्रियसुखं लभते, तथा पूर्वसूत्रोक्तलक्षणशुभोपयोगेन युक्तः परिणतोऽयमात्मा तिरियो वा माणुसो व देवो वा भूदो तिर्यग्मनुष्यदेवरूपो भूत्वा तावदि कालं तावत्कालं खकीयायुःपर्यन्तं लहदि सुहं इंदियं विविहं इन्द्रियजं विविध सुखं लभते, इति सूत्राभिप्रायः ॥ ७० ॥ अथ पूर्वोक्तमिन्द्रियसुखं निश्चयनयेन दुःखमेवेत्युपदिशति-सोक्खं सहावसिद्धं रागाद्यपाधिरहितं चिदानन्दैकखभावेनोपादानकारणभूतेन सिद्धमुत्पन्नं यत्स्वाभाविकसुखं तत्स्वभावसिद्धं भण्यते । तच्च णत्थि सुराणं पि आस्तां मनुध्यादीनां सुखं देवेन्द्रादीनामपि नास्ति सिद्धमुवदेसे इति सिद्धमुपदिष्टमुपदेशे परमागमे । ते देहवेदणट्टा रमंति विसएसु रम्मेसु तथाभूतसुखाभावात्ते देवादयो देहवेदनार्ताः पीडिताः कदर्थिताः सन्तो रमन्ते विषयेषु रम्याभासेष्विति । अथ विस्तरः---अधोभागे सप्तनरकस्थानीयमहाऽजगरप्रसारितमुखे, कोणचतुष्के तु क्रोधमानमायालोभस्थानीयसर्पचतुष्कप्रसारितवदने देहस्थानीयमहान्धकूपे पतितः सन् कश्चित् पुरुपविशेषः, संसारस्थानीयमहारण्ये मिथ्यात्वादिकुमार्गे नष्टः पतितः सन् मृत्युस्थानीयहस्तिभयेनायुष्कर्मस्थानीये साटिकविशेषे शुक्लकृष्णपक्षस्थानीयशुक्लकृष्णमूषकद्वयछेद्यमानमूले व्याधिस्थानीयमधुमक्षिकावेष्टिते लग्नस्तेनैव हस्तिना हन्यतरहके इंद्रियजनित सुखोंको भोगता है ॥ ७० ॥ आगे कहते हैं, कि इंद्रियजनित सुख • यथार्थमें दुःख ही हैं-[सुराणामपि ] देवोंके भी [खभावसिद्धं सौख्यं]
आत्माके निज स्वभावसे उत्पन्न अतींद्रिय सुख [ नास्ति ] नहीं है, ['इति' ] इसप्रकार [ उपदेशे ] भगवानके परमागममें [सिद्धं ] अच्छी तरह युक्तिसे कहा है । [यतः ] क्योंकि.[ते] वे देव [ देहवेदनार्ताः ] पंचेन्द्रियस्वरूप शरीरकी पीडासे दुःखी हुए [ रम्येषु विषयेषु ] रमणीक इंद्रिय विषयोंमें [रमन्ति ] क्रीड़ा करते हैं । भावार्थ-सब सांसारिक सुखोंमें अणिमादि आठ ऋद्धि सहित देवोंके सुख प्रधान