________________
*४.]
प्रवचनसारः
-
अथेन्द्रियसुखखरूपविचारमुपक्रममाणस्तत्साधन स्वरूपमुपन्यस्यति -
तं गुणदो अधिगदरं अविच्छिदं मणुवदेवपदिभावं । अपुण भावबिद्धं पणमामि पुणो पुणो सिद्धं ॥ ४ ॥
८९
पणमामि नमस्करोमि पुणो पुणो पुनः पुनः । कम् । तं सिद्धं परमागमप्रसिद्धं सिद्धम् । कथंभूतम् । गुणदो अधिगदरं अन्याबाधानन्तसुखादिगुणैरधिकतरं समधिकतर - गुणम् । पुनरपि कथंभूतम् । अविच्छिदं मणुवदेवपदिभावं यथा पूर्वमर्हदवस्थायां मनुंजदेवेन्द्रादयः समवशरणे समागत्य नमस्कुर्वन्ति तेन प्रभुत्वं भवति, तदतिक्रान्तत्वादतिक्रान्तमनुजदेवपतिभावम् । पुनश्च किं विशिष्टम् । अपुण भावणिबद्धं द्रव्यक्षेत्रादिपञ्चप्रकारभवाद्विलक्षणशुद्धबुद्धैकस्वभावनिजात्मोपलम्भलक्षणो योऽसौ मोक्षस्तस्याधीनत्वादपुनर्भावनिबद्धमिति भावः ॥ ४॥ एवं नमस्कार मुख्यत्वेन गाथाद्वयं गतम् । इति गाथाष्टकेन पञ्चमस्थलं ज्ञातव्यम् । एवमष्टादशगाथाभिः स्थलपञ्चकेन सुखप्रपञ्चनामान्तराधिकारो गतः । इति पूर्वोक्तप्रकारेण 'एस- सुरासुर' इत्यादि · चतुर्दशगाथाभिः पीठिका गता, तदनन्तरं सप्तगाथाभिः सामान्यसर्वज्ञसिद्धिः, तदनन्तरं त्रयस्त्रिंशद्गाथाभिः ज्ञानप्रपञ्चः, तदनन्तरमष्टादशगाथाभिः सुखप्रपञ्च इति समुदायेन द्वासप्ततिगाथाभिरन्तराधिकारचतुष्टयेन शुद्धोपयोगाधिकारः समाप्तः ॥ इत ऊर्द्ध पञ्चविंशतिगाथापर्यन्तं ज्ञानकण्ठिकाचतुष्टयाभिधानोऽधिकारः प्रारभ्यते, तत्र पञ्चविंशतिगाथामध्ये प्रथमं तावच्छुभाशुभविषये मूढत्वनिराकरणार्थ 'देवदजदिगुरु' इत्यादि दशगाथापर्यन्तं प्रथमज्ञानकण्ठिका कथ्यते । तदनन्तरमात्मात्मखरूपपरिज्ञानविषये मूढत्वनिराकरणार्थ ' चत्ता पावारंभ' इत्यादि सप्तगाथापर्यन्तं द्वितीयज्ञानकण्ठिका, अथानन्तरं द्रव्यगुणपर्यायपरिज्ञानविषये मूढत्वनिराकरणार्थ ‘दवादीएसु' इत्यादि गाथाषङ्कपर्यन्तं तृतीयज्ञानकण्ठिका । तदनन्तरं स्वपर - तत्त्वपरिज्ञानविषये मूढत्वनिराकरणार्थ 'णाणप्पगं' इत्यादि गाथाद्वयेन चतुर्थज्ञानकण्ठका । इति चतुष्टयाभिधानाधिकारे समुदायपातनिका । अथेदानीं प्रथमज्ञानकण्ठिकायां खतन्त्रव्याख्यानेन गाथाचतुष्टयं, तदनन्तरं पुण्यं जीवस्य विषयतृष्णामुत्पादयतीति कथनरूपेण गाथाचतुष्टयं, तदनन्तरमुपसंहाररूपेण गाथाद्वयं, इति स्थलत्रयपर्यन्तं क्रमेण व्याख्यानं क्रियते । तद्यथा—अथ यद्यपि पूर्वं गाथाषङ्केनेन्द्रियसुखखरूपं भणितं तथापि पुनरपि तदेव विस्तरेण कथयन् सन् तत्साधकं शुभोपयोगं प्रतिपादयति, अथवा द्वितीयपातनिका - पीठिकायां यच्छुभोपयोगखरूपं सूचितं तस्येदानीमिन्द्रियसुखविशेषविचारप्रस्तावे तत्साधकत्वेन विशेषआगे इस अधिकारमें इंद्रियजनित सुखका विचार किया जावेगा, उसमें भी पहले इंद्रियसुखका कारण शुभोपयोगका स्वरूप कहते हैं - [ यः ] जो आत्मा [ देवतायतिगुरुपूजासु ] देव, यति, तथा गुरुकी पूजामें [च] और [ दाने ] दानमें [वा ] अथवा [ सुशीलेषु ] गुणव्रत, महाव्रत, आदि उत्तम शीलों
प्र० १२