________________
६८
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा० ५२- इह खलु 'उदयगदा कम्मंसा' इत्यत्र सूत्रे उदयगतेषु पुद्गलकर्माशेषु सत्सु संचेत-.. यमानो मोहरागद्वेषपरिणतत्वात् ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यमानः क्रियाफलभूतं बन्धमनुभवति, न तु ज्ञानादिति प्रथममेवार्थपरिणमनक्रियाफलत्वेन बन्धस्य समर्थितत्वात् । तथा 'गेण्हदि णेव ण मुंचदि' इत्यर्थपरिणमनादिक्रियाणामभावस्य शुद्धात्मनो निरूपितत्वाचार्थानपरिणमतोऽगृह्णतस्तेष्वनुत्पद्यमानस्य चात्मनो ज्ञप्तिक्रियासद्भावेऽपि न खलु क्रियाफलभूतो बन्धः सिद्ध्येत् ॥ ५२ ॥ 'जानन्नप्येष विश्वं युगपदपि भवद्भाविभूतं समस्तं मोहाभावाद्यदात्मा परिणमति परं नैव निर्टूनकर्मा । तेनास्ते मुक्त एव प्रसभविकसितज्ञप्तिविस्तारपीतज्ञेयाकारं त्रिलोकी पृथगपृथगथ द्योतयन् ज्ञानमूर्तिः'
॥ इति ज्ञानाधिकारः। · केवलिनां बन्धो नास्तीति तमेवार्थ प्रकारान्तरेण दृढीकुर्वन् ज्ञानप्रपञ्चाधिकारमुपसंहरति
ण वि परिणमदि यथा स्वकीयात्मप्रदेशैः समरसीभावेन सह परिणमति तथा ज्ञेयरूपेण न परिणमति ण गेण्हदि यथैव चानन्तज्ञानादिचतुष्टयरूपमात्मरूपमात्मरूपतया गृह्णाति तथा ज्ञेयरूपं न गृह्णाति उप्पज्जदि णेव तेसु अद्वेसु यथा च निर्विकारपरमानन्दैकसुखरूपेण खकीयसिद्धपर्यायेणोत्पद्यते तथैव च ज्ञेयपदार्थेषु नोत्पद्यते । किं कुर्वन्नपि । जाणण्णवि ते तान् ज्ञेयपदार्थान् खस्मात् पृथग्रूपेण जानन्नपि । स कः कर्ता । आदा मुक्तात्मा अवंधगो तेण पण्णत्तो ततः कारणात्कर्मणामबन्धकः प्रज्ञप्त इति । तद्यथा-रागादिरहितज्ञानं बन्धकारणं न भवतीति ज्ञात्वा शुद्धात्मोपलम्भलक्षणमोक्षविपरीतस्य नारकादिदुःखकारणकर्मबन्धस्य कारणानीन्द्रियमनोजनितान्येकदेशविज्ञानानि त्यक्त्वा सकलविमलकेवलज्ञानस्य कर्मबन्धाकारणभूतस्य यद्वीजभूतं निर्विकारस्वसंवेदनज्ञानं तत्रैव भावना कर्तव्येत्यभिप्रायः ॥ ५२ ॥ एवं रागद्वेषमोहरहितत्वात्केवलिनां वन्धो नास्तीति कथनरूपेण ज्ञानप्रपञ्चसमाप्तिमुख्यत्वेन चैकसूत्रेणाष्टमस्थलं गतम् । [तात् ] उन पदार्थोंको [जानन् अपि] जानता हुआ भी [येन] जिस कारण [अपि] निश्चय करके [न परिणमति] न तो परिणमता है, [न गृह्णाति] न ग्रहण करता है, [नैव ] और न [तेषु अर्थेषु] उन पदार्थों में [उत्पद्यते] उत्पन्न होता है, [तेन] उसी कारणसे वह [अबन्धकः] नवीन कर्मवंधसे रहित [प्रज्ञप्तः] कहा गया है। भावार्थ-यद्यपि केवलज्ञानी सब पदार्थोको जानता है, तो भी उन पदार्थोको राग, द्वेप, मोह भावसे न परिणमता है, न ग्रहण करता है, और न उनमें उत्पन्न होता है, इस कारण बंध रहित है। क्रिया दो प्रकारकी है, एक ज्ञप्तिक्रिया और दूसरी ज्ञेयार्थपरिणमनक्रिया, उनमें ज्ञानकी राग द्वेप मोह रहित जाननेरूप क्रियाको 'ज्ञप्तिक्रिया' और जो राग द्वेप मोहकर पदार्थका जानना, ऐसी क्रियाको 'ज्ञेयार्थपरिणमनक्रिया' ...' कहते हैं। इनमें से ज्ञेयार्थपरिणमनक्रियासे बंध होता है, . ज्ञप्तिक्रियासे नहीं होता।