________________
यत्र स्वत सिद्धन स्वतो भिन्नेन सहृदयसमतेनाप्रकृतेन स प्रकूतस्य धर्मत - सादृश्यमेकदा वाच्य चेद् भवति तत्रोपमा । स्वत सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्ति । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसभवात् ।
प्रतापरुद्रीयम् - पृ0 414
अजित सेन द्वारा निरूपित रूपक का लक्षण
अतिरोहितरूपस्य व्यारोपविषयस्य यत् ।
उपरञ्जकमारोप्य रूपक तदिहोच्यते ।।
मुख चन्द्र इत्यादौ मुखमारोपस्य विषय आरोप्पश्चन्द्र अतिरोहितरूपस्येत्यनेन विषयस्य संदिह्यमानत्वेन तिरोहित रूपस्य, सदेहस्य, भ्रान्त्याविषयतिरोधानरूपस्य भ्रान्तिमत अपह्नवनारोपविषयतिरोधान रूपस्यापह्नवस्यापि च निराश । व्यारोपविषयस्येत्यनेनोत्प्रेक्षादेरध्यवसायगर्भस्योपमादीनामनारोपहेतुकाना व्यावृत्ति ।। उपरञ्जकमित्यतेन परिणामालकारनिरास । तत्र प्रकृतोपयोगित्वेनारोप्यमाणस्यान्वयो न प्रकृतोपरजकतया । विलक्षणमिदमित सर्वेभ्य सादृश्यमूलेभ्य । तत्तु सावयव निरवयव परम्परितमिति त्रिधा । सावयव पुनर्द्विधा समस्तवस्तुविषयमेकदेशविवर्ति चेति । निरवयव च केवल मालारूप चेति द्विधा । परम्परितमपि श्लिष्टाश्लिष्टहेतुत्वेन द्विधा । तवयमपि केवलमालारूपत्वेन चतुर्विधमित्यष्टविध रूपकम् । यत्र सामस्त्येनावयवानामवयविनश्च निरूपण
तत्समस्तवस्तुविषयम् ।
अचि0 4/104 तथावृत्ति