________________
। काव्यमाला।
नमिति व्यज्यते । अमुना कमठेनोढा सती पृष्ठे लमापि । अपिरवधारणे। लमवेत्यर्थः । अचयपि । एवं च खतो निश्चलायाश्चाञ्चल्याभावोपदेशः पिष्टपेषणतुल्य इति व्यज्यते । कालमतिवाहय । 'असि' इति पाठे यतो निश्चलासि, अत एव कालमतिवाहयेति योजना । कठोरत्वचः । एवं च जरठत्वं ध्वन्यते । कमठस्याङ्कन किम् । एवं चैतज्जरठपाणिग्रहणशालिन्या चाचलशून्यया त्वया कर्कशतदकेच्छामपहाय सर्वमेतत्तदीयापराधजातमपि सोढावस्थेयमिति ध्वन्यते ॥
इत्यनन्तपण्डितगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेतोकारवज्या।
ऋकारवज्या । नेदं खकटाक्षविक्षेपादिचातुर्यप्रदर्शनस्थलम् । अतोऽतिसरलतयैवात्रावस्थितिकवितेति काचित्कांचिच्छिक्षयति
ऋजुना निघेहि चरणौ परिहर सखि निखिलनागराचारम् ।
इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ।। १४०।। ऋजुनेति । ऋजुना सरलेन, अर्थान्मार्गेण चरणौ निधेहि स्थापय । समप्रां नागररीतिं त्यज । इह स्थले पल्लीपति!षाधिपः । एवं चानभिज्ञत्वं वन्यते । कटाक्षसंपादनेऽप्येवं चान्यकर्तव्यता दूरापास्तेति भावः । डाकिनीति बुद्ध्या दण्डयति ॥ शास्त्रचर्चात्र भवतीति विज्ञायागतस्तत्र ग्रामीणचर्चामालोक्य कश्चिद्वक्ति
ऋषमोऽत्र गीयत इति श्रुत्वा खरपारगा वयं प्राप्ताः ।
को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानम् ॥ १११॥ ऋषभ इति । ऋषभः खरविशेषः, वृषभश्च । 'ऋषभो वृषभो वृषः' इत्यमरः । अत्र गीयत इति ज्ञात्वा खरज्ञानवन्तो वयं समागताः । एतत्स्वलं गोशान्ती विहितो बहुमानो यत्रेति गोष्ठं गोस्थानकमिति को वेद । दीपोत्सवादावामीरा गवामलंकरणं विधाय गानं कुर्वन्तीति देशाचारः। एवं च नाममात्रादेवास्माकं गानसमानत्वबुद्धिरुदभवदिति भावः॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यापार्थदीपनया समेता प्रकारवज्या ।