________________
काव्यमाला।
कयाचन नायिकया कृष्यमाणाञ्चलं नायकं प्रत्यन्योक्त्या तत्सखी वकि· उत्क्षिप्तबाहुदर्शितभुजमूलं चूतमुकुल मम सख्या ।
आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥ १३४ ॥ उत्क्षिप्तेति । उत्क्षिप्तो यो बाहुस्तेन दर्शितं भुजमूलं यत्र क्रियायाम् । हे चूतमुकुल । मुकुलपदं भ्रमरायभुक्तप्रतिपादनेनागनासंगतिशून्यत्वं नायके ध्वनयति । तच्चात्यन्तस्पृहणीयत्वम् । मम सख्याकृष्यमाण, भवतः परमुत्कृष्टमुच्चतरपदलाभो राजति । एवं च मत्सखीकराकर्षणेन तवोत्कृष्टस्थानप्राप्तिर्जातेति व्यज्यते। तेन चैतत्कराकर्षणं खर्गसुखरूपमिति। पल्लवादेराकर्षणोत्तरमोचनादूर्ध्वगमनमिति
बद्धारदर्शनेन सर्वोऽपि त्वद्विहारमाकाहतीति सखी नायिकां वक्ति
उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलमानः ।
अतिनिम्नमध्यसंक्रमदारुनिमस्तरुणि तव हारः ॥ १३५ ॥ उञ्चेति । उच्चौ यौ कुचकुम्भौ। कुम्भपदमाधारकाठिन्यद्योतनाय । तत्र निहितः । जघने कट्याः पुरोभागे । 'क्लीबे तु जघनं पुरः' इत्यमरः । लममग्रं यस्य । अत्यन्तं निनो नीचो यो मध्यस्तत्संक्रमाय यद्दारु तत्तुल्यः। निम्नदेश उल्लङ्घनाय यत्काष्ठं दीयते तत्संक्रमदारु । तरुणि, तव हारो हृदयम् । द्रष्टुरिति यावत् । चालयति चञ्चलं करोति । अन्योऽपि संक्रमदारुमार्गेण गच्छंश्चञ्चलताभाजनं भवतीति लौकिकम् ॥ रतश्रान्तेयमिति सखी नायकं वकि
उल्लसितशीतदीधितिकलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुषविधृतधनुर्निर्गतमकरन्दबिन्दुनिमाः ॥ १३६ ॥ उल्लसितेति । उल्लसितः । सुरतसुखादिति भावः । शीतदीधितिर्मुखचन्द्रखस्य मनोज्ञोपकण्ठे कुसुमायुधेन विधृतं यदनुस्खनिर्गता ये मकरन्दविन्दवसत्सदृशास्तारौपाः प्रखेदविन्दवः स्फुरन्ति । एवं च कुसुमसममुकुमारताशालिनीयं रतश्रान्तेति व्यज्यते। यद्वा जातोऽयमभिसारसमय इति सखी नायिका वक्ति। उल्लसितः प्रादुर्भूतः शीतदीधितिश्चन्द्रस्तत्समीपदेशे तारौघा नक्षत्रीघा मदनधनुर्मपरन्दतुल्याः स्फरन्ति । अर्धचन्द्रत्वेन धनुस्तुल्यता । एवं चतादृशमुषाकरसाहाखासंपनः कुसुमधन्वा सज्जः संवत्तः । अतो तितरमभिसरखेति धन्यते ॥