SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ आर्यासप्तशती। २७९ उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे । द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ।। ७०१ ॥ उदयनेति । शिष्यसोदराभ्यामुदयनबलभद्राभ्यां सप्तशती रविचन्द्राभ्यां द्यौरिव निर्मलीकृत्य संशोध्य । पक्षे ध्वान्तरहितां कृत्वा । प्रकाशिता शिष्यप्रशिप्यद्वारा विस्तारिता । पक्षे प्रकाशविषयीकृता । एवं च प्रथमत इयं मत्कृतिस्तत्राप्युदयनाचार्यबलभद्राभ्यां संशोध्य शिष्येभ्यः पाठिता । अतोऽत्र दूषणं विभाव्योद्भावनीयमिति व्यज्यते ॥ हरिचरणाञ्जलिममलं कविवरहर्षाय बुद्धिमान्सततम् । अकृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥ ७०२ ॥ हरीति । मतिमान्गोवर्धनाचार्यों हरिचरणयोरञ्जलिम् । प्रणाममित्यर्थः । विरचय्येति भावः । सततं कविश्रेष्ठसंतोषाय । एवं चापकृष्टकवीनामसंतोषे न काचिक्षतिरिति भावः । अमलं यथा भवति तथैतां सप्तशतीमकृत। अत्रापरोक्षेऽपि परोक्षवनिर्देशेनौद्धत्याभावो व्यज्यते । यद्वा मतिमान् । एवं च सप्तशत्या भगव. दर्पणकरणं समुचितमेतस्येति भावः । गोवर्धनाचार्यः सततं कविवरहर्षाय । स्थितामिति शेषः । एतामार्यासप्तशतीममलं खच्छं हरिचरणयोरजलि पुष्पाञ्जलिमकृत । एतत्पक्षेऽपि मया कृतेति वचनाभाव आचार्यस्य विनयवत्तामावेदयति । अत्र भामा सत्यभामेति वदञ्जलिः पुष्पाञ्जलिः । तात्पर्यान्यथानुपपत्त्या लक्षणेति वा । तबाहकं चामलपदम् ॥ अर्थागमे सरणिरत्र बहुप्रकारा संदृश्यते तदपि निर्वहणक्षमेयम् । मद्दर्शिता रसवती निखिलावदातसाहित्यशालिविबुधैः परिशीलनीया ॥ ब्रह्मैवास्ति रसस्तदर्थकगिरो वेदान्तभागाः परं ज्ञात्वैवं निरमायि यनिजधिया विस्तारहीन मया । तद्गोवर्धनवाचि साचिरचनं व्यङ्ग्यार्थसंदीपनं सीतासंयुतरामचन्द्रचरणाम्भोजे चिरं तिष्ठतु ॥ अब्दे लोचनबिन्दुसप्तशशमृत्प्रस्तारसंलक्षिते ( १७०२) चैत्रे मासि सिते शिवस्य दिवसे मार्तण्डसद्वासरे।
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy