________________
२७१
आर्यासप्तशती। अथवा मुग्धै सुन्दरे । मायक इत्यर्थः । 'मुग्धः सुन्दरमूढयोः' इति । लोचनबाणं मुचेति योजना प्राग्वत् ॥ क्रोधवशादपमानितं नायकं नायिका समाधत्ते
हससि चरणप्रहारे तल्पादपसारितो मुवि खपिषि ।
नासदृशेऽपि कृते प्रिय मम हृदयात्वं विनिःसरसि ॥६८८॥ हससीति । चरणताडने हास्यं करोषि । शयनीयाहूरीकृतो भूमौ खाएं करोषि । असदृशेऽयोग्ये कृतेऽपि हे प्रिय, मम हृदयात्त्वं न विनिःसरसि । एवं च चरणप्रहारादिरूपानुचितावमानने क्रोधात्कृतेऽपि चेतसा त्वद्विषयकानुरागभागिन्येवाहमिति चरणताडनादिजन्यमदीयापराधमनात्यानुग्रहं कुर्विति व्यज्यते । यद्वा सपत्नीसांनिध्यरूपानुचिते विहितेऽपि । त्वयेति भावः । मम हृदयात्त्वं नापगच्छसि । अत्र हेतुमाह-चरणप्रहारे हससीत्यादि । एवं च त्वदीयैतादृशसहनशीलखरूपगुणाकृष्टचित्ततया त्वदीयैतादृशानुचिताचरणजनितक्रोधेन न मय्यवस्थि. तिलभ्यत इति व्यज्यते । तेन चाहमधुना त्वयि प्रसनेति ॥ नायके नायिकासक्तिविशेषं सखी वक्ति
हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।
खमायितेन तस्यां सुभग त्वन्नाम जल्पत्याम् ॥ ६८९ ॥ हसतीति । हे सुभग, तस्यां नायिकायां वनायितेनोत्खापेन त्वनाम जल्पन्यां सत्यां सपनी हसति । एतस्या असतीत्वज्ञानोत्तरं प्रियाप्रियत्वं भविध्यतीति सुखाविर्भावादिति भावः । श्वश्रू रोदिति । इदं चेदन्यैः श्रुतं तदानर्थ एवापयेत । अथवेयमेतादृशी संवृत्ता, कथमतः परं पुनस्तनयविवाहसंपादनमिति दुःखोद्रेकादिति भावः । सख्यश्च वदनम् । नायिकाया इति भावः । पिदधते । एवं च वर्णानामस्फुटत्वसंपादनेन पुनर्नामग्रहेऽपि सम्यग्ज्ञानमन्येषां मा भवत्विति धियेति भावः । एवं चैतस्यास्तत्रतादृशी गतिरिति त्वमेवाधुना शरणमित्यवगत्यानुरका तामनुगृहाणेति व्यज्यते ॥ नायकः सखायं वचि
हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः । . प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥ ६९० ॥ हृदयमिति । हे सखे, प्रबलः प्रतिक्षणं विहितावृत्तियनैतादृशः प्रियासंबन्धी