________________
२६४
काव्यमाला ।
नास्माभिरेवं विचारितमिति समाधातुं शक्यमित्यावेद्यते । आद्यो विनताया गरुड'जनन्यास्तनूजोऽरुणस्तद्वत्स व्यङ्गएव । एवकारेणान्यथाबुद्धिकरणानर्हत्वं ध्वन्यते ॥
कश्चित्कंचिद्वति—
* सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा ।
न विदूरदर्शनतया कैश्चिदुपादीयते गृधः ॥ ६७० ॥
सज्जनेति । समीचीनजन एव विद्या शोभार्थं भवति । फलदा भवतीत्यर्थः । दुर्जने निष्फला । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति — अत्यन्तदूरदर्शित्वेन गृध्रः कैश्चिन्नोपादीयते । एवं च विद्यावत्त्वेऽपि त्वया दुर्जनत्वं न विधेयमिति व्यज्यते । एवकारेणैव न दुर्जन इत्यर्थप्रतीतौ दुर्जनेत्यादि निरर्थकमिवाभाति । यद्वा शोभायैवेति योजना । विद्या सज्जने शोभाप्रदा न धनप्रदेत्यर्थः । दुर्जने मोघा फलत्वावच्छिन्नताजनिका । शोभाप्रदापि नेत्यर्थः । अथवा सज्जने विद्यैव शोभायै फलप्रदा न त्वविद्येत्यर्थः । दुर्जने विद्यैव मोघा निष्फला न त्व विद्येत्यर्थः ॥
समीचीनखनायक एव रुचिरुचितेति वादिनीं कांचित्काचिद्वति सुभगं वदति जनस्तं निजपतिरिति नैष रोचते माम् । पीयूषेऽपि हि भेषजभावोपनते भवत्यरुचिः ॥ ६७१ ॥
1
सुभगमिति । जनः । एवं च सर्वैकवाक्यत्वमावेद्यते । तं सुभगं वदति । मह्यं निजपतिरिति हेतोरेष पतिर्न रोचते । अमुमेवार्थमर्थान्तरन्यासेनाह— मेषजभावापन्नेऽमृतेऽपि निश्चयेनारुचिर्भवति । एवं च निजपतित्वमेव दोष इति भावः । ~एवं च पतिपदमर्थवत् । अत्र न रोचते इति प्रागभिधानादग्रेऽपि रुचिर्न भवतीत्येव युक्तमित्याभाति । अरुचिपदाद्वेषवत्त्वप्रतीतेः ॥
त्वत्कटाक्षविक्षेपाक्षिप्तः क्षणमपि न त्वां विना धृतिं लभत इति नायकदूती नायिकां वक्ति
सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृतप्रयत्नमपि । हिमगिरिशिखरस्खलिता गङ्गेवैरावतं हरति ॥ ६७२ ॥
सौघेति । सौधगवाक्षगतापि ते दृष्टिः स्थितौ । धैर्यस्येति भावः । पक्षे गति निवृत्ती । कृतः प्रयत्नो येन तमपि हीति निश्वयेन हिमाचलशिखरात्स्खलिता गङ्गा