________________
૨૮
काव्यमाला।
काचित्कांचिदन्योक्त्या वक्ति
खेहक्षतिर्जिगीषा समरः प्राणन्ययावधिः करिणाम् ।
न वितनुते कमनर्थ दन्तिनि तव यौवनोद्भेदः ॥ ६५२ ।। नेहेति । हे दन्तिनि, तव तारुण्योद्गमः प्रीतिनाशः, जेतुमिच्छा, प्राणनाशावधिः सङ्ग्रामः, इति कमनर्थ गजानां न वितनुते । अपि तु सर्वम् । एवं च त्वनिमित्तं तरुणानां परस्परं मेहनाशादि भवतीति व्यज्यते । तेन च त्वमत्यन्तसुभगेति ॥ काचित्कांचिद्वक्ति
सदनादपैति दयितो हसति सखी विशति धरणिमिव बाला ।
ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदेति ॥ ६५३ ॥ सदनादिति । मुग्धे, प्रसीदेति शुके जल्पति सति प्रियो गृहाद्गच्छति । गृहिणीक्रोधभयादिति भावः । सखी हसति । कथमिदानी मत्सख्यधीनतामापन्न इति धियेति भावः । तोषादिति वा भावः । बाला । एवं च लज्जायोग्यत्वं व्यज्यते। धरणिमिव विशति । लजावशादिति भावः । सपनी ज्वलति । द्वेषवशान्मानवशा. द्वेति भावः । एवं चैतादृशाचरणमत्यन्तं सम्यगिति व्यज्यते ॥ नायको वति
संकुचिताङ्गी द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् ।
दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥ ६५४ ॥ संकुचितेति । हे हिम, तव प्रसादेन संकुचिताहीं द्विगुणवस्त्रां चित्तमात्रे विस्फुरन्मदनो यस्यास्तां दयितां मुग्धामिव भजामि । एवं च यद्वशात्प्रौढापि नवोढेव भवतीति व्यज्यते । तेन च त्वत्तुल्यो नान्यः कश्चिन्मदुपकर्तेति । नवोढाप्यासंकोचादिमती भवति ॥ दूती नायिका वकि
सखि लमैव वसन्ती सदाशये महति रसमये तस्य ।
वाडवशिखेव सिन्धोर्न मनागप्यातां मजसि ॥ ६५५ ॥ सखीति । हे सखि । एवं च हितोपदेशाईत्वं वन्यते । तस्य महति प्रशस्ते । एवं चान्यकृतापरावसंगोपनकारित्वं योयते । पक्षे गभीरे । रसमये