________________
२७०
अध्यात्मतत्वालोकः ।
३३
सीमा न खल्वस्ति चमत्कृतीनां भूमण्डले चेत् कुशलः प्रयोक्ता ।
परं च ताभिर्नहि कर्मसृष्टि
St
र्व्याहन्यते शुष्यति नापि मोक्षः ॥
३४
संसारवासे वसतोऽपि योगात्
परिस्थितौ क्वापि विवेकमाजः ।
स्मृतेर्बहिः स्यान्न तु साध्यबिन्दुरात्माभिमुख्यं खलु सारमन्ते ॥
३५
[ अष्टम
इति सुबोधसुवासितमाशयं
कुरुत काङ्क्षत चात्मसमुन्नतिम् ! | सति बलीयसि तत्र मनोरथे
प्रयतनं सुलभीभविता स्वत' ॥ ३६
उपसंहारः--- तदेव सङ्क्षित गदितमिदमध्यात्मविषये
मयाऽल्पज्ञेनाऽपि स्वपरिदृढसंस्कारविधये । समालोकिप्यन्ते किल सहृदयाः केऽपि गुणिनः प्रबुद्धेऽस्मात् कस्मिश्चन मम कृतार्थत्वमधिकम् ॥