________________
अध्यात्मतत्त्वालोकः ।
[पञ्चम
१७. मनोविशुद्धयै, समतां श्रयेत
__ निमज्जनात् साम्यसरोवरे यत् । रागादिकम्लानिपरिक्षयः स्याद्
अमन्द आनन्द उपेयते च ॥
संयम्य चेतः समता क्षण चेद्
निषेव्यते तहिं तदुत्थमन्तः । अलौकिकं शं प्रसरीसरीति
कि वय॑ते तर्हि सदा समस्य ।।
साम्याञ्जनं पूरितमस्ति यस्याऽ। न्तर्लोचन मोहतमःप्रणाशात् । स्वस्मिन् स्वरूप परमेश्वरस्य
पश्यत्यसौ निष्ठितसाध्यबिन्दुः ॥
२०
दूरे, दिवः शर्म शिवं दवीयः
सुखं मनःसन्निहितं समत्वात् । शक्यं समास्वादयितुं मनोज्ञ
मिहैव मोक्षः समतारतस्य ॥