________________
अध्यात्मतत्त्वालोकः ।
[चतुर्थ
दूरीकृताः सम्पद उन्झिता स्त्री
नीतः समग्रः स्वजनोऽप्युपेक्षाम् । अथ प्रकोपाचरणं किमर्थं तथापि तचेद्धतभागतेयम् ।।
२६ नगत्रितय्यामपि कोऽस्मदीयो
यत्राधिकारश्चरितुं क्रुध नः । सर्वेऽस्मदीया यदि का प्रकोपो
न कर्मक्लप्साविह तत्क्षमत्वम् ॥ . .
स्थातव्यमत्रास्ति कियद्दिन यत्
कोपाग्निना प्रज्वलन क्षमं स्यात् । यद्यहिकार्य क्षम एव कोपः
पारत्रिकाथै प्रशमो न तर्हि ? ॥
२८ यमान् कुरुध्वं नियमान् कुरुध्व
,क्रियां कुरुध्व च तपः कुरुध्वम् । न किन्तु यद्यस्ति शमावगाहा ' सर्वेऽपि ते निष्फलतां व्रजेयुः ॥