________________
१४६
अध्यात्मतत्त्वालोकः ।
तृतीय
तत्त्वेन मायाम्बु यथेक्षमाण
स्तन्मध्यतो यात्यविषण्ण आशु । भोगान् स्वरूपेण तथैव मायाs
म्बुवद् विदन्नस्खलितं प्रयाति ॥
१२६ मीमांसना दीपिकया समाना
मोहान्धकारक्षपणेऽत्र भाति । नत्त्वप्रकाशे च महोन्ज्वलत्वेऽसमञ्जसस्यापि कुतः प्रचारः॥
१२७ दृष्टिः प्रभाऽद्युतितुल्यबोधा
ध्यानैकसाग रहिता रुजान। प्रवर्तते ध्यानसमुद्भवं शं
शमप्रधानं स्ववशं गरिष्ठम् ॥
१२८ सर्व भवेदन्यवशं हि दुःख
सर्वं भवेदात्मवशं हि सौख्यम् । सुखासुखं वस्तुत एतदुक्तं
गुणोऽत्र तत्वप्रतिपत्तिरूपः ॥