________________
दशवकालिकसूत्र
(३८-३९) मूल- तहा नईओ पुण्णाओ कार्यातज्जं ति नो वए ।
नावाहि तारिमाओत्ति पाणिज्ज ति नो वए । बहुवाहडा अगाहा बहुसलिलुप्पिलोबगा ।
बहुवित्थडोदगा यावि एवं भासेज्ज पन्नवं । संस्कृत- तथा नद्यः पूर्णाः कायतार्या इति नो वदेत् ।
नोभिस्तार्या इति प्राणिपेया इति नो वदेत् ।। बहुप्रभृता अगाधा बहुसलिलोत्पीडोदका । बहुविस्तृतोदकाश्चापि एवं भाषेत प्रज्ञावान् ।
(४०-४१) मूल- तहेव सावज्जं जोगं परस्साए निट्ठियं ।
कीरमाणं ति वा नच्चा सावज्ज न लवे मुणो॥ सुकडे ति सुपक्के ति सुछिन्न सुहडे मरे ।
सुनिट्ठिए सुलढे ति सावज्जं वज्जए मुणी॥ संस्कृत- तथैव सावद्य योगं परस्यार्थाय निष्ठितम् ।
क्रियमाणमिति वा ज्ञात्वा सावद्य न लपेन्मुनिः॥ सुकृतमिति सुपक्वमिति सुच्छिन्न सुहृतं मृतम् ।
सुनिष्ठित सुलष्टमिति सावध वर्जयेन्मुनिः ।। १ टिप्पणी-सुकृतं-अन्नादि, सुरक्वं-घृतपूर्णादि, सुच्छिन्न-पत्र
सुहृतं-शाकादेस्तिक्ततादि, सुमृतं घृतादि सक्तुसूपादौ, सुनिष्ठितं रस ५ निष्ठांगतम्, सुलष्टं शोभनं शाल्यादि-अखण्डोज्ज्वलादि प्रकारैरेवमन्यदपि से वर्जयेन्मुनिः । (उत्तराध्ययन ११३६ सर्वार्थसिद्धिटीका) यद्वा सुष्ठकृतं यदनेनारात. प्रतिकृतम् । सुपक्वं पूर्ववत् । सुच्छिन्नोऽयं न्यग्रोधद्र मादिः, सुहृतं-कन्दर्पस्य धनं चौरादिभिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयं प्रासादादिः सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावद्य वचो वर्जयेत्मुनिः। निरवद्यतु सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य वचनविज्ञानादि, सच्छिन्न स्नेहनिगडादि, सुहृतोऽयमुत्पाबाजयितु कामेभ्यो निजकेभ्यः शैक्षिकः समृतमस्य पण्डितमरणेन, सुनिष्ठितोऽयं साध्वाचारे, सुलष्ठोऽयं दारको व्रतग्रहणस्येत्यादिरूपम् ।
-उत्तराध्ययन, नेमिचनवृत्ति ११३६