SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ कारणमिति, निवृत्तानां तु कथंचिदात्माद्यारंभकत्वेऽप्यनारंभकत्वं, यदाह-जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥१॥ त्ति से तेणटुंगंति अथ तेन कारणेनेत्यर्थः। इदं पूर्वोक्तमपि सूत्रं व्याख्यानावसरप्राप्तत्वात्पुनरपि लिखितं विस्तरवाक्यमुपकारीति न पुनरक्तदूषणमिति । ततोऽत्राप्रमत्तानां सप्तमाष्टमनवमदशमैकादशमद्वादशमत्रयोदशमगुणस्थानवर्तिनां संयतानामनया रीत्यानारंभकत्वमवसेयं तेनास्यापि सूत्रस्य भाव विचार्य प्रतिबुध्यस्व ॥ SSSSSSSSSSSHRS अन्यच्च-एग्गया गुणसमियस्स रीयतो कायसंफासमणुचिन्ना पगतिया पाणा उद्दायति । अस्यार्थः-एकदा कदाचिद्गुणसमितस्स गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्स सम्यगनुष्ठानवतोऽतिक्रामतः संकुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्यांचिदवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसंगमागताः संपातिमादयः प्राणिन एके परितापमाप्नुवन्त्येके म्लानतामुपयान्त्ये केऽवयवध्वंसमापद्यन्ते । तथाहि-शैलेश्यवस्थां अपश्चिमावस्थां तु सूत्रेणैव दर्शयत्येक प्राणाः प्राणिनोपशीयंति प्राणैर्विमुच्यन्ते अत्र च कर्मबन्धं प्रति विचित्रता तथाहि-शैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि पंचविधोपादानकारणयोगाभावान्नास्ति बन्धः उपशान्तमोहक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात् सामयिको बन्धः। सप्तमाष्टमनवमदशमगुणस्थानवर्तिनोअमत्तयते - घन्यतोऽन्तर्मुहर्तमुत्कृष्टतोऽन्तःकोटाकोटीसागरस्थितिरिति । श्रीआचारांगवृत्तौ ॥ उप्पाडियम्मि पाप इरियासमियस्स संकमट्ठाप वा पज्जेज्ज कुलिंगी मरेज्ज तज्जोगमासज्ज ॥१॥ न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समय अणवज्जे हुपयोगेण सव्वभावेण सो जम्मो ॥२॥ इति
SR No.010807
Book TitleKumtahivish Janguli Mantra
Original Sutra AuthorN/A
Author
PublisherPravinchandra Amrutlal Shah
Publication Year1951
Total Pages33
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy