SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ * * यत्र स तथा तं । कचिदमन्दहाहारवं क्वचित्केषुचित्प्रदेशेषु नरकनरपशुवधस्थान वियोगिरोरगृहादिषु । अमन्दहाहारवं अमन्दा अतिमहान्तो हाहारवा हा मातः हा तात हा नाथ हा पुत्र इत्यादिरूपा आरवाः शब्दा यत्र स तथा तं। पृथुशोकविषादं पृथू महाविरतीणी शोकविषादौ यस्मिन् स तथा तं शोको दौर्मनस्यं विपादो उर्ललाजीविका दिजनितः खेदस्तौ पृथू लोके इत्यर्थः ॥ ६॥ बहुपरिचितमनन्तशो निखिलैरपि सत्त्वैः । जन्ममरणपरिवर्तिनिः कृतमुक्तममत्वैः वि० ॥ ७॥ व्याख्या-कृतमुक्तममत्वैः कृतं प्रथममुत्पादितं रचितमिति यावत् जन्मसंवन्धादिप्राप्त्या मुक्तं पश्चान्मरणवस्तुविना-18 शादिना त्यक्तं ममत्वं देहादिषु मदीयत्वं यैस्ते कृतमुक्तममत्वास्तैः । जन्ममरणपरिवर्तिनिः जन्ममरणे प्रसिधे तान्यां परिवर्तयन्ति पूर्वपूर्वपरिहारेणोत्तरोत्तरग्रहणं कुर्वन्ति ये ते तथा तैः । निखिलैः समस्तैः । सत्त्वैः प्राणिजिः । अनन्तशोऽनन्तानन्तवारान् कृत्वा । बहुपरिचितं बहुः सर्वेषु प्रदेशेषु सर्वैः परिचितः पुनः पुनर्व्याप्तः यः स तथा तमित्यर्थः ॥७॥ इद पर्यटनपराङ्मुखाः प्रणमत नगवन्तम् । शान्तसुधारसपानतो धृतविनयमवन्तम्, वि० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्ये लोकस्वरूपनावनाविनावनो नामैकादशः प्रकाशः॥ हैl व्याख्या-जो जव्या यदि यूयं इह चातुर्गतिके नवे । पर्यटनपराङ्मुखाः पर्यटनं परिभ्रमणं तस्मात्पराड्रमुखा लग्न परिणामा जाताः । तर्हि धृतविनयं धृतः सम्यक् परिणमितः विनयः विनम्रजावः येन स तथानतं प्राणिनं । शान्त * *
SR No.010806
Book TitleShant Sudharas
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages181
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy