________________
*
SCSASARAM
॥ दशमः प्रकाशः॥ उक्तो नवमः प्रकाशः । तत्र च कर्मरोगौपधस्यानुपानं जिनागमज्ञानमुपदिष्टं । जिनागमे च धर्मस्वाख्यातताऽस्तीत्य|नेन संबन्धेनायातां दशमे धर्मस्वाख्याततालावनां विजावयन्नाह
(उपजातिवृत्तम् ) दानं च शीलं च तपश्च जावो धर्मश्चतुर्धा जिनबान्धवेन ।
निरूपितो यो जगतां हिताय स मानसे मे रमतामजस्रम् ॥१॥ व्याख्या-जिनवान्धवेन जयति रागादीनिति जिनस्तीर्थकरः स एव सर्व हितवत्सलवेन वान्धवः सुखसंपादकः, जातावेकवचनं, तेन । दानं च दातव्यवुख्या धनादेर्मुर्गपरिहारः । शीलं च शुधब्रह्मचर्यपालनेन स्त्रीविषयपश्चकानिलापत्यजनं । तपश्चतुर्थपष्ठादिविधानतो देहममत्ववर्जनं । नावश्च सत्परिणामपूर्वकसर्वव्रताचारपरिपालनेनानिनववन्धजानिवृत्तिपुराणकर्मपणतः स्वस्वरूपप्रापणं । चकाराः स्वगतानेकनेदज्ञापकाः । चतुर्धा चतुःप्रकारो धर्मः स्वनाव-15
साधको हेतुरूपो निरूपितो मुमुक्षूणां हिताय प्रदर्शितः । स कः ? यो धर्मों जगतां त्रिनुबनोदरवर्तिप्राणिनां हिताय । कल्याणाय सर्वकालं प्रवर्तते । स प्रोकरूपो मे मानसे मम हृदये । श्रजलं निरन्तरमहर्निशं रमतां सवितासं निवासं विधत्तामित्यर्थः॥१॥
*
*