________________
क्षल्लकपातालकलशसहस्राणि, अष्टौ च पातालकलशशतानि-क्षुल्लकपातालकलशशतानि 'चतुरशीतानि' चतुरशीयधिकानि भवन्तीत्याख्यातं मया शेषैश्च तीर्थकृद्भिः, उक्तश्च-"अन्नेवि य पायाला खुडालंजरगसंठिया लवणे । अट्ठसया चुलसीया सत्त सहस्सा य सव्वेवि ॥ १॥ पायालाण विभागा सव्वाणवि तिन्नि तिन्नि विनेया । हेहिमभागे वाऊ मज्झे वाऊ य उद्गं च ॥ २॥ उवरिं उद्गं भणियं पढमगबीएसु वाउ संखुभिओ । उर्दू वामइ उद्गं परिवइ जलनिही खुभिओ ॥ ३॥" 'तेसि ण'मित्यादि, तेषां 'क्षुल्लकपातालानां क्षुल्लकपातालकलशानां महापातालानां चाधस्तनमध्येषु त्रिभागेषु तथाजगत्स्थितिस्वाभाव्यात् प्रतिदिवसं द्विकृत्वस्तत्रापि चतुर्दश्यादिषु तिथिष्वतिरेकेण 'बहवः' अतिप्रभूताः "उदारा' ऊर्द्धगमनस्वभावाः प्रबलशक्तयश्च, उत्-प्राबल्येन आरो येषां ते उदारा इति व्युत्पत्तेः, 'वाताः' वायवः 'संस्विद्यन्ते' उत्पत्त्यभिमुखीभवन्ति ततः क्षणानन्तरं 'संमूर्च्छन्ति' संमूर्च्छजन्मना लब्धात्मलाभा भवन्ति ततः 'चलन्ति' कम्पन्ते वातानां चलनस्वभावत्वात् , ततः 'घट्टन्ते' परस्परं सङ्घट्टमाप्नुवन्ति, तदनन्तरं 'क्षुभ्यन्ते' जातमहाद्भुतशक्तिकाः सन्त ऊर्द्धमितस्ततो विप्रसरन्ति, ततः 'उदीरयन्ति' अन्यान् वातान् जलमपि चोत्-प्राबल्येन प्रेरयन्ति, तं तं देशकालोचितं मन्दं तीनं मध्यमं वा भावं परिणामं 'परिणमन्ति' धातूनामनेकार्थत्वात् प्रपद्यन्ते । 'जया णं तेसिं खुड़ापायालाण'मित्यादि सुगम भावितत्वात् । 'तया णमित्यादि, तदा णमिति वाक्यालकारे 'तद्' उदकम् 'उन्नामिजतें' उन्नाम्यते
१ अन्येऽपि च पातालकलशाः क्षुद्रारजरसंस्थिता लवणे । अष्ट शतानि चतुरशीतीनि सप्त सहस्राणि च सर्वेऽपि ॥ १॥ पातालाना विभागाः सर्वेषामपि त्रयस्त्रयो विज्ञेया । अधस्तनभागे वायु , मध्ये वायुश्च उदकं च ॥ २ ॥ उपरितनभागे उदकं भणितं, प्रथमद्वितीययोः वायुः संक्षुभित । ऊर्दू। वामयति ( निष्काशयति) उदकं परिवर्द्धते जलनिधिः क्षुभित. ॥३॥