________________
माणा २ चिति, से तेणद्वेणं गोयमा ! एवं बुचर – जंबुद्दीवे २, अदुत्तरं च णं गोयमा ! जंबुद्दीवस्स सासते णामधे पण्णत्ते, जम्न कयावि णासि जाव णिचे ॥ ( सू० १५२ )
'जंबूए ण' मित्यादि, जम्ब्वाः सुदर्शनायाञ्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रः शाखाः प्रज्ञप्ताः, तद्यथा - एका पूर्वस्यामेका दक्षिणस्यामैका पश्चिमायामेकोत्तरस्यां तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देश. प्राकृतत्वात्, 'तस्स ण' मित्यादि, तस्या बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं, क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमूर्द्धमुचैस्त्वेन तस्य वर्णको द्वारादिवक्तव्यता च प्रागुकमहापद्मवत्, तथा चाह - ' पमाणाइया महापउमवत्तव्वया भाणियव्वा अहीणमइरित्ता जाव उप्पलहत्यगा' इति ॥ ' तत्थ ण'मित्यादि, तंत्र या सा दक्षिणात्या शाखा तस्या बहुमध्यदेशभागे अत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः क्रोशमेकमूर्द्धमुचैस्त्वेन, अर्द्धक्रोशं विष्कम्भेन, 'अब्भुग्गयमूसियपहसिया इवे' यादि तद्वर्णनमुपर्युल्लोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं च प्राग्वत्, नवरमत्र मणिपीठिका पभ्वधनुःशतान्यायाम विष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि वाहत्येन सिंहासनं च सपरिवारं वाच्यमिति, तस्य च प्रासादावतंसकस्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तका इति, यथा च दक्षिणस्यां शाखायां प्रासादावतंसक उक्तस्तथा पश्चिमायामुत्तरस्यामपि च प्रत्येकं वक्तव्यः, जम्ब्वाः सुदर्शनाया उपरि विडिमाया बहुमध्यदेशभागे सिद्धायतनं, तच पूर्वस्यां भवनमिव तावद्वक्तव्यं यावन्मणिपीठिकावर्णनं, तत ऊर्द्धमेवं वक्तव्यं'तीसे ण'मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, एवं पश्वधनुःशतान्यायामविष्कम्भाभ्यां पञ्चधनुःशतानि सातिरेकाणि ऊर्द्धमुचैस्त्वेन सर्वासना रत्नमयः, अच्छ इत्यादि पूर्ववद् यावत्प्रतिरूप इति । 'तत्य णं अट्ठयं जिणपडिमा
३ प्रतिपतौ जम्बूवृक्षाधिकारः
उद्देशः २
सू० १५२
॥ २९७ ॥