________________
अभ्राणीति वा, अभ्राणि-सामान्याकारेण प्रतीतानि, अभ्रवृक्षा इति वा, अभ्रवृक्षा-वृक्षाकारपरिणतान्यभ्राणि, सन्ध्या इति वा-सध्या-1 | काले नीलायभ्रपरिणतिरूपा प्रतीतैव, गन्धर्वनगराणि-सुरसदनप्रासादोपशोभितनगराकारतया तथाविधनभःपरिणतपुद्गलराशिरूपाणि, एतान्यपि तत्र स्वरूंपतोऽपि न भवन्ति, गर्जितानीति वा विद्युत इति वा, गर्जितानि विद्युतश्च प्रतीताः, उल्कापाता इति वा, उल्कापाता-व्योनि संमूछितज्वलननिपतनरूपाः, दिग्दाह इति वा, दिग्दाहा-अन्यतरस्यां दिशि छिन्नमूलज्वलनज्वालाकरालिताम्बरप्रतिभासरूपाः, निर्घाता इति वा, निर्घातो-विद्युत्प्रपातः, पांशुवृष्टय इति वा, पांशुवृष्टयो-धूलिवर्षाणि, यूपका इति वा, यूपका: 'संझाछेयावरणो य' इत्यादिनाऽऽवश्यकमन्थेन प्रतिपत्तव्याः, यक्षदीप्तकानीति वा, यक्षदीप्तकानि नाम नभसि दृश्यमानाग्निसहितः पिशाच:, धूमिकेति वा रूक्षा प्रविरला धूमामा धूमिका, महिकेति वा, स्निग्धा घना घनत्वादेव भूमौ पतिता सार्द्रतृणादिदर्शनद्वारेणोपलक्ष्यमाणा महिका, रजउद्घाता-रजखला दिशः, चन्द्रोपरागा इति वा सूर्योपरागा इति वा, चन्द्रोपराग:-चन्द्रग्रहणं सूर्योपराग:-सूर्यग्रहणं, इह गर्जितविद्युदुल्कादिग्दाहनिर्घातपांशुवृष्टियूपकयक्षदीप्तकधूमिकामहिकारजउद्घाता: स्वरूपतोऽपि प्रतिषेध्याः, चन्द्रसूर्यग्रहणे त्वनर्थोपनिपातहेतुतया, खरूपतस्तयोः प्रतिषेधुमशक्यत्वात् , जम्बूद्वीपगतौ हि चन्द्रौ सूर्यो वा तत्प्रकाशयतः, एकस्य चन्द्रस्य ग्रहणे सकलमनुष्यलोकवर्त्तिनां चन्द्राणामेकस्य सूर्यस्य ग्रहणे सकलमनुष्यलोकवर्त्तिनां सूर्याणां ग्रहणमत इह क्षेत्र इव तत्रापि खरूपतश्चन्द्रसूर्योपरागप्रतिषेधासम्भवः, चन्द्रपरिवेषा इति वा सूर्यपरिवेषा इति वा, चन्द्रसूर्यपरिवेषाश्चन्द्रादित्ययोः परितो वलयाकारपरिणतिरूपाः प्रतीता एव, प्रतिचन्द्रा इति वा प्रतिसूर्या इति वा, प्रतिचन्द्र-उत्पातादिसूचको द्वितीयश्चन्द्रः, एवं द्वितीयः सूर्यः प्रतिसूर्यः, इन्द्रधनुरिति वा उदकमत्स्य इति वा, इन्द्रधनु:-प्रतीतं, तस्यैव खण्डमुदकमत्स्य:, कपिहसितानीति वा, कपिहसितानि-अकस्मान