________________
परस्परं नालप्रवेशेन संयोज्यते, प्रन्थिमं च वेष्टिमं च पूरिमं च सवातिमं चेति समाहारो द्वन्द्वस्तेन माल्येन छेकशिल्पिना-परमदक्षण शिल्पिना विभागरहितेन यद् यत्र योग्यं प्रन्थिमं वेष्टिमं पूरिमं सवातिमं च तत्र तेन सर्वतः-सर्वासु दिक्षु समनुवद्धं, तथा प्रविरलैः। -लम्बमानैः, तत्र विरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनार्थमाह-विप्रकृष्टै:-बृहदन्तरालैः पञ्चवणः कुसुमदामभिः शोभमानं 'वणमालाकयग्गए चेवेति वनमाला-चन्दनमाला कृताऽग्रे यस्य तद् वनमालाकृतानं तथाभूतं सद् दीप्यमानं, तथैव चित्राङ्गका अपि नाम दुमगणा अनेकबहुविविधविस्रसापरिणतेन ग्रन्थिमवेष्टिमपूरिमसङ्घातिमेन चतुर्विधेन माल्यविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला मूलवन्त इत्यादि यावत्प्रतिरूपकाः ६ ॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुषु कुरुपु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे चित्ररसा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !, यथा तत्परमान्नं-पायसं भवेदिति स-| म्बन्धः, किंविशिष्टमित्याह-ये सुगन्धा:-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वात्रैतद्रूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणा इत्यत्र, वरा:-प्रधाना दोपरहितक्षेत्रकालादिसामग्रीसंपादितासलाभा इति भावः, कमलशालितन्दुला:, यय विशिष्टं-विशिगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं ते राद्धं-पकं परमकलमशालिभिः परमदुग्धेन च यथोचितमात्रापाकेन निष्पादितमित्यर्थः, तथा शारदं घृतं गुडः खण्डं मधु वा शर्करापरपर्यायं मेलितं यत्र तत् शारदघृतगुडखण्डमधुमेलितं, निष्ठान्तस्य | परनिपातः प्राकृतत्वात् सुखादिदर्शनाद्वा, अत एवातिरसमुत्तमवर्णगन्धवत् , यथा वा राज्ञश्चक्रवर्तिनो भवेत् कुशलैः सूपपुरुपैः-सूप
कारैः पुरुषैः सज्जितो-निष्पादितः चतुष्कल्पसेकसिक्त इवौदनः, चत्वारश्च कल्पाः सेकविपया रसवतीशास्त्राभिज्ञेभ्यो भावनीयाः, कास चौदनः किंविशिष्टः? इत्याह-कलमशालिनिवर्तितः-कलमशालिमयो विपको-विशिष्टपरिपाकमागतः, 'सबाप्फमिउविसयसक
ROSSISLOSSESS
OG