________________
लवणसमुद्दे ?, गोयमा ! जबुद्दीवे दीवे नो खलु ते लवणसमुद्दे ॥ लवणस्स णं भंते! समुहस्स पदेसा जंबूद्दीवं दीव पुट्ठा ?, हंता पुट्ठा। ते णं भंते! किं लवणसमुद्दे जंबूद्दीवे दीवे ?, गोयमा! लवणे णं ते समुद्दे नो खलु ते जंबुद्दीवे दीवे ॥ जंबुद्दीवे णं भंते! दीवे जीवा उदाइत्ता २ लवणसमुद्दे पञ्चायंति ?, गोयमा । अत्थेगतिया पचायंति अत्थेगतिया नो पचायंति ॥ लवणे णं भंते! समुद्दे जीवा उद्दाता २ जंबुद्दीवे २ पच्चायंति ?, गोयमा ! अत्थेगतिया पच्चायंति अत्थेगतिया नो पचायंति ॥ (सू० १४६ )
'जंबूद्दीवरस णं भंते!' इत्यादि, जम्बूद्वीपस्य णमिति पूर्ववत् भदन्त ! द्वीपस्य 'प्रदेशाः ' स्वसीमागतचरमरूपा लवणं समुद्रं 'स्पृष्टाः ?' कर्तरि क्तप्रत्ययः स्पृष्टवन्तः, काका पाठ इति प्रश्नार्थत्वावगतिः, पृच्छतश्चायमभिप्रायः- यदि स्पृष्टास्तर्हि वक्ष्यमाणं पृच्छयते नो चेत्तर्हि नेति भावः, भगवानाह - दंतेत्यादि, 'हन्त' इति प्रत्यवधारणे स्पृष्टाः ॥ एवमुक्ते भूयः पृच्छति' ते ण' मित्यादि, ते भ दन्त ! खसीमागतचरमरूपाः प्रदेशाः किं जम्बूद्वीप: ? किंवा लवणसमुद्रः ?, इह यद् येन संस्पृष्टं तत्किञ्चित्तद्व्यपदेशमभुवानमुपलब्धं यथा सुराष्ट्रेभ्य: संक्रान्तो मगधदेशं मागध इति, किञ्चित्पुनर्न तद्व्यपदेशभाग् यथा तर्जन्या संस्पृष्टा ज्येष्ठाऽङ्गुलिज्येष्ठैवेति, इहापि च जम्बूद्वीपचरमप्रदेशा लवणसमुद्रं स्पृष्टवन्तस्ततो व्यपदेशचिन्तायां संशय इति प्रश्नः, भगवानाह - गौतम ! जम्बूद्वीप एव णमिति निपातस्यावधारणार्थत्वात् ते चरमप्रदेशा द्वीपो, जम्बूद्वीपसीमावर्त्तित्वात्, न खलु ते जम्बूद्वीपचरमप्रदेशा लवणसमुद्र:, (न ते) जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमुपगताः किन्तु स्वसी मागता एव लवणसमुद्रं स्पृष्टवन्तस्तेन तटस्थतया संस्पर्शभावात् तर्जन्या
३ प्रतिपत्तौ स्पर्शोत्पातपृच्छा उद्देशः २
सू० १४६
॥ २६१ ॥