________________
कान्यालिखति, आलिख्य 'कयग्गाहगहिय'मित्यादि मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थ युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तं, प्राकृतत्वादेवं पदव्यत्ययः, तेन 'दशार्द्धवर्णेन' पञ्चवर्णेन 'कुसुमेन' कुसुमसमूहेन 'पुष्पपुञ्जोपचारकलितं' पुष्पपुज एवोपचार:-पूजा पुष्पपुखोपचारस्तेन कलितं-युक्तं करोति, कृत्वा च 'चंदप्पभवइरवेरुलियविमलदंड' चन्द्रप्रभवनवैडूर्यमयो विमलो कण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदव्यत्ययः, तां धूपत्ति विनिर्मुञ्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयत: 'अहसयविसुद्धगंठजुत्तेहिं' इति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः-शव्दसंदर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः ‘अर्थयुक्तैः' अर्थसारैः अपुनरुक्तैः महावृत्तः, तथाविधदेवलब्धेः प्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं 'अञ्चति' उत्पाटयति दक्षिणं जानुं धरणितले "निवाडेइ' इति निपातयति लगयतीत्यर्थः 'त्रिकृत्वः' त्रीन् वारान् मूर्द्धानं धरणितले 'नमेइ'त्ति नमयति नमयित्वा चेषत्प्रत्युन्नमयति, ईपत्प्रत्युन्नम्य
कटकत्रुटितस्तम्भितौ भुजौ 'संहरति' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावत मस्तकेऽञ्जलिं कृत्वैवमवादीत्-'नमोऽत्थु दाण'मित्यादि, नमोऽस्तु णमिति वाक्यालकारे देवादिभ्योऽतिशयपूजामहन्तीयहन्तस्तेभ्यः, सूत्रे षष्ठी "छट्ठिविभत्ती' भन्नइ
चउत्थी"इति प्राकृतलक्षणात् , ते चाहन्तो नामादिरूपा अपि सन्ति ततो भावात्प्रतिपत्त्यर्थमाह-'भगवन्यः' भगः-समप्रैश्वर्यादि5 लक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीला आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति
+4+8CA-बबाल