________________
वत् , तालवंशखरादिसमनुगतं समं, तथा यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेनेति सललितं, यदिवा यच्छ्रोनेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते वत् सललितम् ॥ इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुराह-रत्तं तिहाणकरणसुद्ध'मित्यादि, 'रक्तं' पूर्वोक्तस्वरूपं तथा च 'त्रिस्थानकरणशुद्धं' त्रीणि स्थानानिउर:प्रभृतीनि तेषु करणेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्ध च, तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं, स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्ध, यदिवा यद् उर:कण्ठशिरोभिः श्लेष्मणाऽव्याकुलितैर्विशुद्धैर्गीयते तद् उरःकण्ठशिरोविशुद्धत्वानिस्थानकरणविशुद्धं, तथा सकुहरो गुञ्जन् यो वंशो यत्र तत्रीतलताललयग्रहसुसंप्रयुक्तं भवति सकुहरे वंशे गुखति तत्र्यां च वाद्यमानायां यत्तत्रीस्वरेणाविरुद्धं तत् सकुहरगुतद्वंशतन्त्रीसुसंप्रयुक्तं, तथा परस्पराहतहस्ततालस्वरानुवतिं यद् गीतं तत्तालसुसंप्रयुक्तं, यत् मुरजकंसिकादीनामातोद्यानामाहतानां यो ध्वनिर्यश्च नृत्यन्त्या नर्त्तक्याः पादोत्क्षेपस्तेन समं तत्तालसुसंप्रयुक्तं, तथा शृङ्गमयो दारुमयो वंशमयो वाऽङ्गुलिकोशस्तेनाहतायास्तत्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा यः प्रथमं वंशतव्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तं, तथा 'महर'मिति मधुरं प्राग्वत्, तथा 'सम'मिति तालवंशस्वरादिसमनुगतं समं सललितं प्राग्वद् अत एव मनोहरं, पुनः कथम्भूतम् ? इत्याह-'मउयरिभियपयसंचारं' तत्र मृदु-मृदुना वरेण युक्तं न निष्ठुरेण तथा यत्र स्वरोऽक्षरेपु-घोलनास्वरविशेषेषु संचरन् रागेऽतीव प्रतिभासते स पदसञ्चारो रिभितमुच्यते मृदुरिभितपदेपु गेयनिबद्धेपु सञ्चारो यत्र गेये तत् मृदुरिभितपदसञ्चार, तथा 'सुरई' इति शोभना रतियस्मिन् श्रोतणां तत्सुरति, तथा शोभना नतिः