________________
___ जाव विहरंति ॥ कहि णं भंते ! दाहिणिल्लाणं असुरकुमारदेवाणं भवणा पुच्छा, एवं जहा ठाण-.., ___ पदे जाव चमरे, तत्थ असुरकुमारिंदे असुरकुमारराया परिवसति जाव विहरति ॥ (सू०११७)
'से किं त' मित्यादि, अथ के ते देवाः १, सुरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-भवनवासिनो वानमन्तरा ज्योतिष्का वैमानिकाः, अमीपां च शब्दानां व्युत्पत्तिर्यथा प्रज्ञापनाटीकायां तथा वेदितव्या ॥ ‘से किं तमित्यादि, अथ के ते 'भवनवासिनः ?, सूरिराह-भवनवासिनो दशविधाः प्रज्ञप्ताः, एवं देवानां प्रज्ञापनागतप्रथमप्रज्ञापनाख्यपद इव तावद्भेदो वक्तव्यो यावत्सर्वार्थदेवा इति । सम्प्रति भवनवासिनां देवानां भवनवसनप्रतिपादनार्थमाह-कहिणं भंते!' इत्यादि, क भदन्त ! भवनवासिनां देवानां भवनानि प्रज्ञप्तानि ?, क भदन्त ! भवनवासिनो देवाः परिवसन्ति ?, भगवानाह-गौतम! 'इमीसे णमित्यादि, 'अस्याः ' प्रत्यक्षत उपलभ्यमानाया यत्र वयमास्महे रत्नप्रभायाः पृथिव्याः "अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः' अशीत्युत्तरम्-अशीतिसहस्राधिक योजनशतसहस्रं बाहल्यं-पिण्डभावो यस्याः सा तथा, तस्या उपर्येकं योजनसहस्रमवगाह्याधस्तादेके योजनसहस्रं वर्जयित्वा मध्ये 'अप्टसप्तते' अष्टसप्ततिसहस्राधिके योजनशतसहस्रे, 'अत्र' एतस्मिन् स्थाने भवनवासिनां देवानां सप्त भवनकोटयो द्विसप्ततिर्भS| वनावासशतसहस्राणि भवन्तीति आख्यातानि मया शेषैश्च तीर्थकृद्भिः, तत्र सप्तकोट्यादिभावनैवं-चतुःषष्टिः शतसहस्राणि भव
नानामसुरकुमाराणां चतुरशीतिः शतसहस्राणि नागकुमाराणां द्विसप्ततिः शतसहस्राणि सुवर्णकुमाराणां षण्णवतिः शतसहस्राणि वायुकुमाराणां, द्वीपकुमारादीनां पण्णां प्रत्येकं पट्सप्ततिः शतसहस्राणि भवनानां, तत: सर्वसङ्ख्यया यथोक्तं भवनसङ्ख्यानं भवति । | 'ते णं भवणा' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , णमिति वाक्यालङ्कारे भवनानि बहिः 'वृत्तानि' वृत्ताकाराणि अन्तः