________________
SGAR
पूर्वसाङ्गतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थ यथा बलदेवः क-5 ३ प्रतिपत्तौ ष्णवासुदेवस्य, स च वेदनोपशमो देवकृतो मनाकालमात्र एव भवति, तत ऊर्व नियमाक्षेत्रखभावजाऽन्योऽन्या वा वेदना प्रवर्त्तते,
६ नरकाधिक * तथास्वाभाव्यात् , 'अज्झवसाणनिमित्त' मिति अध्यवसाननिमित्तं सम्यक्त्वोत्पादकाले तत ऊर्ध्वं कदाचित्तथाविधविशिष्टशुभाध्यव- उद्देशः३ ॐ सायप्रत्ययं कश्चिद् नैरयिको बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव 5 सू०९६
महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनां भावयतः, ततो बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽप्यन्तः सातोदयो विज़म्भमाणो न विरुध्यते, 'अहवा कम्माणुभावेण मिति अथवा 'कर्मानुभावेन' बाह्यतीर्थकरजन्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभावेन-विपाकोदयेन कश्वित्सातं वेदयने, न चैतद्व्याख्यानमनार्ष यत उक्तं वसुदेवचरिते, इह नैरयिकाः कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भिद्यमाना वा भयोबस्तास्तथाविधप्रयत्नवशादूर्द्धमुत्प्लवन्ते, ततस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुतानां-सर्वासना व्याप्तानां 'वेदनाशतसंप्रगाढानां' वेदनाशतानि-अपरिमिता वेदनाः संप्रगाढानि-अवगाढानि येषां ते वेदनाशतसंप्रगाढाः सुखादिदर्शनात् निष्ठान्तस्य परनिपातः, तेपां हेतुहेतुमद्भावश्चात्र, यतो वेदनाशतसंप्रगाढास्ततो दुःखेनाभिट्ठताः, तेषां जघन्यत उत्पातो गव्यूतमात्रम् , एतच्च संप्रदायादवसीयते, तथा च दृश्यते कचिदेवमपि पाठ:-"नेरइयाणुप्पाओ गाउय उकोस. पंचजोयणसयाई" इति, उत्कर्षतः पञ्च योजनशतानि इति । दुःखेनाभिहतानामित्युक्तं ततो दुःखमेव निरूपयति-नरके नैरयिकाणामुष्णवेदनया शीतवेदनया
॥१३०॥ वाऽहर्निशं पच्यमानानां न 'अक्षिनिमीलनमात्रमपि' अक्षिनिकोचकालमात्रमपि अस्ति सुखं, किन्तु दु:खमेव केवलं 'प्रतिबद्धम्
Waturemamaasumerem wine
GAR
&
GS
+
C