________________
ने अप्पियं अमणन्नं अमणाम' अस्यार्थः प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावत्तमस्तमायाम् , एवमप्तेजोवायुवनस्पतिपसत्राण्यपि भावनीयानि, नवरं तेजःस्पर्श:-उष्णरूपतापरिणतनरककुड्यादिस्पर्शः परोदीरितवैक्रियरूपो वा वेदितव्यो न त साभाद् बादराग्निकायस्पर्शः, तत्रासम्भवात् ॥ 'इमीसे ण'मित्यादि, अस्यां भदन्त! रत्नप्रभायां पृथिव्यां त्रिंशति नरकावासशतसहस्रेषु एकस्मिन नरकावासे 'सर्वे प्राणाः' द्वीन्द्रिया 'सर्वे भूताः' वनस्पतिकायिका: 'सर्वे सत्त्वाः' पृथिव्यादयः "सर्वे जीवा' पञ्चेन्द्रियाः, उक्तश्च-"प्राणा द्वित्रिचतुः प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥ १॥" प्रथिवीकायिकतया अकायिकतया वायुकायिकतया वनस्पतिकायिकतया नैरयिकतया उत्पन्नाः उत्पन्नपूर्वाः ?, भगवानाह-'हते'त्यादि. हन्तेति प्रत्यवधारणे गौतम! 'असकृत' अनेकवारम् , अथवा 'अनन्तकृत्वः' अनन्तान् वारान् , संसारस्थानादित्वात् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी, नवरं यत्र यावन्तो नरकास्तत्र तावन्त उपयुज्य वक्तव्याः । कचिदिदमपि सूत्रं दृश्यते-"इमीसे णं भंते! रयणप्पभाए पुढवीए निरयपरिसामंतेसु णं जे वायरपुढविकाइया जाव वणस्सइकाइया ते णं भंते! जीवा! महाकम्मतरा चेव महाकिरियतरा चेव महासवतरा चेव महावेयणतरा चेव, हंता गोयमा! जाव महावेयणतरा चेव, एवं जाव अहेसत्तमा ॥” अस्यां भदन्त! रम्नप्रभायां पृथिव्यां नरकपरिसमन्तेषु-नरकावासपर्यन्तवर्तिपु प्रदेशेषु बादरपृथिवीकायिकाः 'जाव वणप्फइकाइय'त्ति
बादराकायिका बादरवायुकायिका बादरवनस्पतिकायिकास्ते भदन्त! जीवाः 'महाकम्मतरा चेव' महत्-प्रभूतमसातवेदनीयं कर्म 5 येषां ते महाकाणः, अतिशयेन महाकाणो महाकर्मतराः, 'चे।' त्यवधारणे, महाकर्मतरा एव कुत: ? इत्याह-'महाकिरियतरा
चेव' महती क्रिया-प्राणातिपातादिकाऽऽसीत् प्राग् जन्मनि तद्भवेषु तदध्यवसायानिवृत्त्या येषां ते महाक्रियाः, अतिशयेन महाक्रिया