________________
'परिसस्स णं भंते' इत्यादि, पुरुषस्य खस्वभवमजहतो भदन्त! कियन्तं कालं यावस्थितिः प्रज्ञप्ता?, भगवानाह-जघन्यतोऽन्तर्मुहत्त, तत ऊर्व मरणभावात् , उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि, तान्यनुत्तरसुरापेक्षया द्रष्टव्यानि, अन्यस्यैतावत्याः स्थितेरभावात् । तिर्यग्योनिकानामौधिकानां जलचराणां स्थलचराणां खचराणां स्त्रिया या स्थितिरुक्ता तथा वक्तव्या, मनुष्यपुरुषस्याप्यौधिकस्य कर्मभूमिकस्य सामान्यतो विशेषतो भरतैरावतकस्य पूर्व विदेहापरविदेहकस्य अकर्मभूमस्य सामान्यतो विशेषतो हैमवतैरण्यवतकस्य हरिवर्परम्यकस्य देवकुरूत्तरकुरुकस्यान्तरद्वीपकस्य यैवासीये आलीये स्थाने स्त्रियाः स्थिति: सैव पुरुषस्यापि वक्तव्या, तद्यथा-सामानिकतिर्यग्योनिकपुरुषाणां जघन्येनान्तर्मुहर्तमुत्कर्षतस्त्रीणि पल्योपमानि, जलचरपुरुषाणां जघन्येनान्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, चतुष्पदस्थलचरपुरुपाणां जघन्येनान्तर्मुहर्तमुत्कर्षतस्त्रीणि पल्योपमानि, उर:परिसर्पस्थलचरपुरुपाणां जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, एवं भुजपरिसर्पस्थलचरपुरुषाणां खचरपुरुषाणामपि जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पल्योपमासङ्ख्येयभागः, सामान्यतो मनुष्यपुरुषाणां जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त, एतच्च बाह्य लिङ्गप्रव्रज्याप्रतिपत्तिमङ्गीकृत्य वेदितव्यं, अन्यथा चरणपरिणामस्यैकसामायिकस्यापि सम्भवादेकं समयमिति ब्रूयात् , अथवा देशचरणमधिकृत्येदं वक्तव्यं, देशचरणप्रतिपत्तेबहुलभङ्गतया जघन्यतोऽप्यन्तर्मुहूर्तसम्भवात् , तत्र सर्वचरणसम्भवेऽपि यदिदं देशचरणमधिकृत्योक्तं तद्देशचरणपूर्वकं प्राय: सर्वचरणमिति प्रतिपत्त्यथै, तथा चोक्तम्-"सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ। चरणोवसमखयाणं सागर संखंतरा होति ॥ १॥" इति, अत्र यदाद्यं व्याख्यानं तत्त्रीवेदचिन्तायामपि द्रष्टव्यं, यच्च स्त्रीवेदचिन्तायां व्याख्यातं तदन्नापीति, उत्कर्षतो देशोना पूर्वकोटी
१ सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेनैव श्रावको भवति । चरणोपशमक्षयाणा सागरोपमाणि संख्यातानि अन्तरं भवन्ति ॥१॥