________________
छात्पत्तिवत् संहरणस्यापि नियोगतो भावात् , तथाहि-काचिदकर्मभूमिका कर्मभूमौ संहृता, सा च खायुःक्षयानन्तरमनन्तकालं वन
सत्यादिपु संसृत्य भूयोऽप्यकर्मभूमौ समुत्पन्ना तत: केनापि संहृतेति यथोक्तं संहरणस्योत्कृष्टकालमानम् । एवं हैमवतहरण्यवतहरिवर्षरम्यकवर्षदेवकुरूत्तरकुर्वन्तरभूमिकानामपि जन्मतः संहरणतश्च प्रत्येकं जघन्यमुत्कृष्टं चान्तरं वक्तव्यम्, सुत्रपाठोऽपि सुगमत्वास्वयं परिभावनीयः ॥ सम्प्रति देवस्त्रीणामन्तरप्रतिपादनार्थमाह-देवित्थियाणं भंते !' इत्यादि, देवस्त्रिया भदन्त ! अन्तरं कालत: कियच्चिरं भवति ?, भगवानाह-गौतम | जघन्येनान्तर्मुहूर्त, कस्याश्चिद्देव स्त्रिया देवीभवाच्युताया गर्भव्युत्क्रान्तिकमनुष्येपूत्पद्य पर्याप्तिपरिसमाप्तिसमनन्तरं तथाऽध्यवसायमरणेन पुनर्देवीवेनोत्पत्तिसम्भवात् , उत्कर्षतो वनस्पतिकालः, स च सुप्रतीत एव । एवमसुरकुमारदेव्या आरभ्य यावदीशानदेवस्त्रियामुत्कृष्टमन्तरं वक्तव्यं, पाठोऽपि सुगमत्वात्स्वयं परिभावनीयः ॥ सम्प्रत्यल्पबहुलं वक्तव्यं, तानि च पञ्च, तद्यथा-प्रथमं सामान्येनाल्पवहुत्वं विशेषचिन्तायां द्वितीयं त्रिविधतिर्यक्स्रीणां तृतीयं त्रिविधमनुष्यस्त्रीणां चतुर्थ चतुर्विधदेवस्त्रीणां पञ्चमं मिश्रस्त्रीणां, तत्र प्रथममल्पवहुत्वमभिधित्सुराह
एतासि णं भंते ! तिरिक्खजोणित्थियाणं मणुस्सित्थियाणं देवित्थियाणं कतरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा मणुस्सित्थियाओ तिरिक्खजोणित्थियाओ असंखेजगुणाओ देवित्थियाओ असंखिजगुणाओ॥ एतासि णं भंते! तिरिक्खजोणित्थियाणं जलयरीणं थलयरीणं खयरीण य कतरा २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवाओ खहयरतिरिक्खजोणित्थियाओ थलयरतिरिक्ख