________________
अपज्जत्तगा य' एषामपर्याप्तत्वमुत्पत्तिकाल एव द्रष्टव्यं न त्वपर्याप्तिनामकर्मोदयतः, उक्तश्च-नारयदेवा तिरियमणुयगम्भजा जे असंखवासाऊ । एए उ अपजत्ता उववाए चेव बोद्धव्वा ॥१॥” इति, शरीरादिद्वारचिन्तायां शरीरद्वारे त्रीणि शरीराणि वैक्रियं तैजसं कार्मणं च, अवगाहना भवधारणीया जघन्यतोऽङ्गुलासङ्ख्येयभागमात्रा उत्कर्पतः सप्तहस्तप्रमाणा, उत्तरवैक्रिया जघन्यतोऽङ्गलसवयेयभागप्रमाणा उत्कर्षतो योजनशतसहस्रं, संहननद्वारे षण्णां संहननानामन्यतमेनापि संहननेनासंहननिनः, कुतः? इत्याह-'नेवट्ठी' इत्यादि, यतो नैव तेषां देवानां शरीरेष्वस्थीनि नैव शिरा नापि स्नायूनि संहननं चास्थिनिचयासकमतोऽस्थ्यादीनामभावात्संहननाभावः, किन्तु 'जे पोग्गला' इत्यादि, ये पुद्गला इष्टाः-मनस इच्छामापन्नाः, तत्र किञ्चिदुकान्तमपि केषाञ्चिदिष्टं भवति तत आहकान्ताः' कमनीयाः शुभवर्णोपेतत्वात् , यावत्करणात् 'पिया मणुन्ना मणामा' इति द्रष्टव्यं, तत्र यत एव कान्ता अत एव प्रिया:-सदैवासनि प्रियबुद्धिमुत्पादयन्ति, तथा 'शुभाः' शुभरसगन्धस्पर्शात्मकत्वात् 'मनोज्ञाः' विपाकेऽपि सुखजनकतया मनःप्रहादहेतुलात्
'मनापाः' सदैव भोज्यतया जन्तूनां मनांसि आप्नुवन्ति, इत्थम्भूताः पुद्गलास्तेषां शरीरसङ्घाताय परिणमन्ति । संस्थानद्वारे भवधादारणीया तनुः सर्वेषामपि समचतुरस्रसंस्थाना उत्तरवैक्रिया नानासंस्थानसंस्थिता, तस्या इच्छावशतः प्रादुर्भावात् , कषायाश्चत्वारः, स
ज्ञाश्चतस्रो, लेश्याः षड् , इन्द्रियाणि पञ्च, समुद्घाताः पञ्च, वेदनाकषायमारणान्तिकवैक्रियतैजससमुद्घातसम्भवात् । सज्ञिद्वारे । सम्झिनोऽपि असज्ञिनोऽपि, ते च नैरयिकवद्भावनीयाः, वेदद्वारे स्त्रीवेदा अपि पुरुषवेदा अपि नो नपुंसकवेदाः, पर्याप्तिद्वारं दृष्टिद्वारं दर्शनद्वारं च नैरयिकवत् । ज्ञानद्वारे ज्ञानिनोऽपि अज्ञानिनोऽपि चेति विकल्पोऽसज्ञिमध्यः, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञा-1
नारका देवाः तिर्यस्यनुजा गर्भव्युकान्ता येऽसङ्ख्येयवर्षायुष्काः । एते तु अपर्याप्ता उपपात एव बोद्धव्याः ॥१॥