________________
मीजीवा- मार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्य यावन्नाद्यापि निखिलकर्ममलापगमस्तावद् यथा यथा देशतः कर्ममलोच्छेदस्तथा तथा १प्रतिपत्ती जीवाभि० है तस्य विज्ञप्तिरुज्जृम्भते, सा च कचित्कदाचित्कथचिनेकप्रकारा, उक्तश्च-"मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्धामविज्ञ- मनुष्याः मल यगि- प्तिस्तथाऽनेकप्रकारतः ॥ १॥" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे सम- सू० ४१ रीयावृत्तिः स्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदासनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणावशेषदे-ॐ ॥४७॥
शज्ञानन्यवच्छेदेनैकरूपाऽतिपरिस्फुटा सर्ववस्तुपर्यायप्रपञ्चसाक्षात्कारिणी विज्ञप्तिरुल्लसति, उक्तञ्च-"यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदासनः ॥ १॥” इति, येऽज्ञानिनस्ते यज्ञानिनस्यज्ञानिनो वा, तत्र ये यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च । योगद्वारे मनोयोगिनो वाग्योगिन: काययोगिनोऽयोगिनश्च, तत्रायोगिनः शैलेशीमवस्थां प्रतिपन्नाः, उपयोगद्वारमाहारद्वारं च द्वीन्द्रियवत्, उपपात एतेष्वधःसप्तमनरकादिव२ जेभ्यः, उक्तच्च-"सत्तममहिनेरइया तेऊ वाऊ अणंतरुव्बट्टा । नवि पावे माणुस्सं तहेवऽसंखाउया सव्वे ॥१॥” इति, स्थितिद्वारे २ जघन्यत: स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि, समुद्घातमधिकृय मरणचिन्तायां समवाहता अपि म्रियन्ते असमवहता अपि,
च्यवनद्वारेऽनन्तरमुढत्य सर्वेषु नैरयिकेषु सर्वेषु च तिर्यग्योनिषु सर्वेषु मनुष्येषु सर्वेषु देवेष्वनुत्तरोपपातिकपर्यवसानेषु गच्छन्ति, 'अत्थेगइया सिझंति जाव अंतं करेंति' इति, अस्तीति निपातोऽत्र बहुवचनार्थः, सन्त्येकका ये निष्ठितार्थाः भवन्ति यावत्करणात् "घुझंति मुचंति परिनिव्वायंति सब्वदुक्खाणमंतं करेंती"ति द्रष्टव्यं, तत्राणिमायैश्वर्याप्त्या तथाविधमनुष्यकृत्यापेक्षया निष्ठितार्था इति, अ
॥४७॥ १ सप्तममहीनैरयिका तेजस्कायिका वायुकायिका अनन्तरोदत्ता । नैव प्रामुवन्ति मानुष्यं तथैवासंख्येयवर्षायुष्का. सर्वे ॥१॥